________________
४३६
शब्द कौस्तुभः ।
[ १ अ०
यों ङीष् तदन्तस्य प्रत्ययस्वरेणान्तोदासस्य । ननु वर्णादनुदाशादिति ङीषन्तस्यापि उदात्तनिवृत्तिस्वरेणान्तोदात्तता स्यादेवेति चेत् । भ्रान्तोसि । उदात्तनिवृत्तेरेवाभावात् । वर्णानान्तणातिनितान्तानामिति फिट्सूत्रेण प्रकृतेरनुदात्तत्वात् । तदुक्तं वर्णादनुदात्तादिति । तथा मीमांसते इति मीमासकः । लित्स्वरेण मध्योदात्तः । मीमांसामधीते मीमांसकः । क्रमादिभ्यो वुन् । नित्स्वरेणाद्युदात्तः । उभयोः सहविवक्षाया माद्युदात्तः । उभयोः सहविवक्षायामाद्युदात्तः शिष्यते नित्स्वरस्य परत्वात् । अक्षौ अक्षाः | अक्षस्यादेवनस्येति फिट्सूत्रेण शकटाक्षे आद्युदात्तः । देवनाक्षे तु फिष इत्यन्तोदात्तः । यद्वा । अशेद्देवने इति प्रत्ययान्तत्वादन्तोदात्तः । शकटावयवबिभीतकयोस्तु घञन्तत्वादायुदात्तः । अत एव प्राचेयामेति सूक्ते अक्षकितवनिन्दाप्रस्ताव अक्षस्या हमेक परस्येत्यादयाक्षेशब्दा बहवोन्तोदात्ता एव प्रयुज्यन्ते । तस्य नाक्ष इत्यादौ तु रथावयवपरत्वादायुदात्तः । उभयोः सहविवक्षायान्तु आद्यदातस्य शेषः । इन्द्रियवाचिना क्लीवेन सहविवक्षायान्तु नपुंस कमनपुंसकेनेति अक्षमक्षाणीत्याद्यूह्यम् । नन्वचेतनानां देवतानां कथं पुंनपुंसकादिव्यवस्थेति चेत् । उच्यते । लोकप्रसिद्धमवयवसंस्थानविशेषात्मक लिङ्गं तावन्न व्याकरणे आश्रीयते । दारान् इत्यादौ नत्वाभावप्रसङ्गात् / तटस्तटतटमित्यादौ यथायथं लिङ्गात् त्रितयनिबन्धनकार्याणामसिद्धिप्रसङ्गाच्च । कितु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवलान्वयि । अयमर्थः इयं व्यक्तिरिदं वस्त्वितिशब्दानां सर्वत्राप्रतिबद्धप्रसरत्वात् । तत्र कश्चिच्छब्दः एकस्मिन्नेव लिङ्गे शक्तः कश्चित्तु द्वयोः कश्चित् त्रिष्विति_लिङ्गानुशासनादिभ्यो निर्णेयम् । कुमारब्राह्मणा
-