SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २ पा. ३ आ. शब्दकौस्तुभः । ४३७ दिशब्दास्तु लौकिक पुंस्त्वविशिष्टे शास्त्रीये पुंस्त्वे शक्ताः लौकिविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा कुमारी कुमार इत्यादयः प्रयोगा व्यवतिष्ठेरन् । करेणुरिभ्यां स्त्रीनेभइत्यमरस्याप्ययमेवार्थः । नन्वेवं पशुनेतिपुंस्त्वं विवक्षितमिति मीमांसकोद्घोषः कथं योज्यः । पारिभाषिकस्याव्यावर्त्तकतया तद्विवक्षाया अकिञ्चित्करत्वात् । लौकिकस्य तु पशुशब्दादप्रतीतेरिति चेत् । सत्यम् । छागो वा मन्त्रवर्णादिति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोध्यः । छागशब्दस्य लौकिक पुंस्त्वविशिष्टपारिभाषिके शक्तत्वादिति दिक् । तच्च जा तित्रयमित्यके । उक्तं च हरिणा । तिस्रो जातय एवैताः केपां चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभिरिति भाष्ये तु स्त्रियामितिसूत्रे प्रकारान्तरमुक्तम् । संस्त्यान - सव लिङ्गमास्थय स्वकृतान्ततः । संस्त्याने स्त्यायतेर्डट् स्त्रीसूतेः सप्रसवे पुमान् ॥ उभयोरन्तरं यच्च तदभावे नपुंसकमिति ॥ अयमर्थः । संस्त्यानं स्त्री । सत्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स एव पुमान् । सूतेर्धातोः सप्सकारस्य पकारादेश इत्यर्थः । सूङो डुमसुन्निति माधवः । यत्तूज्ज्वलदत्तेन यातेर्दमसुन्नित्युक्तम् । यच्च पुंसोसुङतिसूत्रे न्यासरक्षिताभ्यां पुनातर्मकसुन हूस्वचेति सूत्रं पठितं तदुभयमपि भाष्याननुगुणन्तयोरुपचयापचययोरभावे सति यदुभयोरन्तरसदृशं तन्नपुंसकम् । न भ्राणनपादिति निपातनादिति भावः । तथा च स्थितिमात्रं नपुंसकम् । अत एवाविभवतिरोभावयापि स्थितिसामान्यविवक्षासम्भवान्नपुंसकलिङ्गसर्वनामेति सिद्धान्तः । स्त्रीपुमान्नपुंसकमितिशब्दाच शुक्तयादिशब्दवद्धर्मे धर्मिणि वर्त्तन्तइत्यवधेयम् । स्वकृतान्त इति । कृता
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy