________________
शब्दकौस्तुभः ।
[१ अ० ठया वर्णा एव पूर्व श्रुतास्तस्य कुड्यादिव्यवहितस्य ओष्ठयवणेषु श्रुतेषु यदनुमान जायते तदोष्ठयानोष्ठ्यसाधारणतदनुमापकजात्यंगीकारे सत्येव घटते न तु तत्तद्वयाप्यनानाजातिस्वीकारे।
ओष्ठयवर्णवृत्त्यसाधारणजातेः प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात् । वस्तुतस्तु उपाधिसङ्करवदेव जातिसङ्करोपि सर्वत्रास्तु । दूषकताबीजानिरुक्तेः । विनिगमकाभावेन भूतत्वमूर्त्तत्वयोरिव शरित्वपृथिवीत्वयोयोरपि नातित्वभङ्गापत्तेश्च । तस्माचतुर्विधमपि साधुत्वं निर्दोष व्याकरणैकगम्यं च । एवमसाधुत्वमपि चतुर्दा । अपभ्रष्टता, सादिता, प्रत्यवाययोग्यता, तदवच्छेदकजातिविशेषो वेति । टिघुभादिसंज्ञासु यद्यपि पुण्यपापजनकतारूपे साधुत्वासाधुत्वे न स्तस्तथापि अनपभ्रष्टत्वरूपं साधुत्वमस्त्येव । तदेवानुशासनप्रवृत्तावुपयोगि । भस्येत्यादिसौत्रनिदेशात् कुत्त्वं कस्मान भवतीत्यादिभाष्याचेत्याहुः। एवं चानादित्वमभ्युदययोग्यत्वं वा अनपभ्रष्टतामात्रेण न सिध्यति । किं तु पौरुषेयसङ्केतविरहविशिष्टेनेत्यवधेयम् । तदेतदुक्तम् । यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां सा. धुत्वं नैव ताः साधवो मताः । अनपभ्रंशरूपत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः। ततश्च, नासां प्रयोगे ऽभ्युदयः प्रत्यवायोपि वा भवेत् । लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलमिति । तदयं निर्गलितोर्थः। यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्तइति पक्षे । अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । तएव शक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः पुम्भिरपशब्दा इतीरिता, इति च साध्वसाधुलक्षणे आश्रीयमाणे टिघुमादीनां साध्वसाधुबहिर्भावः स्पष्ट एव । तेपामप्यनादितोत पक्षे तु चतुर्विधापि प्रागुक्ता साधुतास्त्येव । उ