________________
२७
१ पा. १ आ. शब्दकौस्तुभः ।क्तश्च । व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् । नित्यएव तु सम्बन्धो डिस्थादिषु गवादिवत् । वृद्धयादीनां च शास्त्रेस्मिञ्छक्त्यवच्छेदलक्षणः । अकृत्रिमोभिसम्बन्धो विशेषणविशेष्यवदिति। पक्षद्वयेप्यनुशासनविषयता निर्विवादेति । नामकरणे त्वयं विशेषः। कृतं कुर्यान तद्धितमित्यादिगृह्यसूत्राविरोधिनामेव साधुता । तद्विरोधिनां तु देशभाषानुसारेण क्रियमाणानां कूचीमञ्चीत्या- .. दिनामधेयानामसाधुतैव । तदेतदृलसूत्रे वार्तिकव्याख्यावसरे स्फुटीकरिष्यते ॥ इति साधुत्वनिर्वचनम् ॥ व्युत्पादनं च प्रकृतिप्रत्ययादिकल्पनया उत्सर्गापवादरूपलक्षणैरेव । न तु साध्वसाध्वोर्वा अन्यतरस्य वा प्रतिपदपाठेन । शब्दानामानन्त्येन तदसम्भवादित्युक्तम् । स्यादेतत्, लक्षणप्रणयनमापि कि जातिपक्षमाश्रित्य उत व्यक्तिपक्षम् । आये सकृद्गतौ यद्बाधितं तद्बाधितमेवेति न सिध्येत् । तथाहि । जातौ पदार्थे द्वयोर्विध्योः परस्परपरिहारण तत्तज्जात्याक्रान्तव्यक्तिविशेष चरितार्थयोः क्वचिदेकत्र प्रसङ्गे परस्परमतिबन्धादप्रातिपत्तिरेव स्यात् सत्प्रतिपक्षकव । तथा च वक्ष्यति । अप्रतिपत्तिर्वोभम्तल्यबलत्वादिति । तत्र च विप्रतिषेधसूत्रं विध्यर्थ परं तावद्भवतीति । तस्मिश्च कृते यदि पूर्वस्य निमित्तमस्ति तर्हि भवत्येव तत् । यथा भि. न्धकीत्यत्र भिनद् हि इति स्थिते परत्वाद्धिभावे कृते पुन:प्रसङ्गविज्ञानादकज्भवति । तदेवं जातिपक्षे पुन: प्रसङ्गविज्ञानं यद्यपिसिध्यति तथापि सकृद्ताविति न सिध्यति । तथा च जुहुतात्त्वमित्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवद्भावन स्यादेव धिः। व्यक्तिपक्षे तु सकलव्यक्त्युद्देश्यकस्य शास्त्रस्य व्यक्त्यन्तरे चरितार्थत्वासम्भवाद्विकल्पप्रसङ्गे नियमार्थ सूत्रं परमेव भवति न तु पूर्वमिति । तथा चैतत्सूत्रबलेन तत्र