SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [ १ अ० पूर्वलक्षणस्य व्यक्त्यन्तरमात्रविषयकत्वं कल्प्यतइति एतद्व्यक्तिविषयकलक्षणाभाव एव पर्यवस्यति । तथा च जुहुताच्चभित्यादेः सिद्धावपि भिन्धकीत्यादि व्यक्तिपक्षे न सिध्यति । तस्मादशक्यमन्यतरपक्षाश्रयणेन लक्षणप्रणयनमिति चेत् । सत्यम् । अत एव लक्ष्यानुरोधात्पक्षद्वयमप्याश्रीयते । क्व चित्कश्चित्पदार्थ इति । तत्र जातिवादिनामयं भावः । लाघवाज्जातिर्वाच्या । व्यक्तीनामानन्त्येन तासां वाच्यत्वे गौरवम् । वाइदोहाद्यन्वयस्तु लक्षितायां व्यक्ताविति । व्यक्तिवादिनस्त्वाहुः । अनुपपत्ति वि नापि व्यक्तिप्रतीतेरनुभवसिद्धतया व्यक्तिरेव वाच्या । त्वप्रत्ययादिकं विना जातेः प्राधान्येनाप्रतीतेश्व | वाहाद्यन्वयोप्येवं समञ्जसः । यत्तूक्तं व्यक्तीनामानन्त्यमिति, नैतद्वाधकम् । शक्यतावच्छेदिकाया जातेरैक्यात् । नन्वेवं जातेरपि वाच्यत्वमायातमिति चेन्न | अकार्यत्वेपि कार्यतावच्छेदकत्ववदशक्यत्वेपि शक्यतावच्छेदकत्वसम्भवात् । अत एव लक्ष्यतावच्छेदके लक्षणा नेति नैयायिकाभ्युपगमः । तस्माज्जातिरुपलक्षणं व्यक्तिमात्रं तु वाच्यमिति । यत्तु सरूपसूत्रे भाष्ये वक्ष्यते । नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थ इत्यादि । तत्तु जातिव्यक्त्योरन्यतरेण विशिष्टस्यापरस्य वाच्यतेत्येवंरूपं मतान्तरम्। तथा चाकत्यधिकरणे भट्टैरुक्तम् । नियोगेन विकल्पेन द्वे वा सह समुच्चि - ते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरेति । तत्र जातिरेव व्यक्तिरेव वा वाच्येति इहत्यं मतद्वयं नियोगेनेत्यनेनोपनिबद्धम् । चतुर्थचरणेन तु सरूपसूत्रोक्तं मतद्वयमुपनिबद्धमिति विवेकः । यद्यपि जातिव्यक्तिपक्षयोरन्यतरस्य न्यायेन बाध आवश्यकस्तथापीह शास्त्रे संज्ञापरिभाषादिवल्लक्ष्यसिद्ध्युपायतया उभयाश्रयणे किमपि बाधकं नास्तीत्यवधेयम् । वस्तुतस्तु भट्टोक्ताष्टप - २८
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy