________________
१ पा. १ आ. शब्दकौस्तुभः । क्षीमध्ये विकल्पेनेति तृतीयः पक्षोत्र प्रक्रियादशायां स्थितः । विकल्पश्च लक्ष्यानुरोधाद्व्यवस्थितो न स्वैच्छिक इत्यन्यदेतत् । समुच्चयपक्षं चतुर्थमाश्रित्यापि क्व चित्कस्य चिद्विवक्षा अपरस्य त्वविवक्षेति गृहीत्वा प्रक्रियानिर्वाहः सुकर इति दिक् । यदि हि व्यक्तिरेवेत्येतत्सार्वत्रिकमभिमतं स्याहि जात्याख्यायामिति सूत्रं नारभेत । यदि, च जांतिरेवेति ताई सरूपसूत्रं नारभेतेति भाष्यम् । ननु यस्मिन्वने एक एवाम्रवृक्षस्तत्रापि लक्ष. णया जातिपरत्वे इह आम्राः सन्तीति प्रयोग साधयितुं जात्याख्यायामिति सूत्रमस्तु । तथा जातिपक्षेपि नानार्थानुरोधात्सरूपसूत्रमस्तु । वक्ष्यति हि वार्तिककृत् । व्यर्थेषु च मुक्तसंशयमिति । सत्यम् । लक्ष्यानुरोध एव पक्षद्वयाश्रये शरणम् । अत एवोदाहृतसूत्रयोर्भाष्यकृता प्रत्यारव्यास्यमानत्वेप्यदोषः।इदानीं वार्तिककारः शास्त्रस्य नियमविधिरूपतया सार्थक्यमाह । सिद्धे शब्दार्थसम्बन्धेलोकतोर्थप्रयुक्त शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु । लोकादेव हि प्रथमव्युत्पत्तिः । अव्यु. त्पन्न प्रति व्याकरणादीनामप्रवृत्तेः।अर्थवदधातुरित्यादि हि व्याकरणं शक्तिग्रहोपजीवकम् । तथा च समर्थसूत्रेपि वार्तिकम् । "अर्थानादेशनादिति" । अनेकमन्यपदार्थ इत्यादिकं हि लोकसिद्धमर्थमनूय साधुत्वान्याख्यानपरम् । ततश्च लोकादेव शब्दे अर्थे तयोः सम्बन्धे च सिद्धे अर्थबोधनाय शब्दप्रयोगपि प्रसक्ते गवादय एव प्रयोक्तव्या न तु गाव्यादय इति नियमार्थ शास्त्रम् । नियमफलं तु धर्मः । तत्र स्मात्तॊ दृष्टान्तः । प्राङ्मुखोमानि भुञ्जीतत्यादिलौकिकशब्देनोक्तः । ब्राहीनवहन्तीत्यादिच वैदिकशब्देनोक्तः । धर्मनियम इति च षष्ठीतत्पुरुषः । अश्वघासादिवत् । न तु चतुर्थीतत्पुरुषः । प्रकृतिविकृतिभावविरहा