________________
३०
शब्दकौस्तुभः ।
[ १ अ०
-
त् । ननु यदि प्रयुक्तानामिदमन्वाख्यानं तार्ह किमर्थमप्रयुक्ता अपि ऊष तेर चक्र पेचेत्यादयो व्युत्पाद्यन्तइति चेन्न । आज्ञानं विना अप्रयुक्तताया दुरवधारणत्वात् । महान्हि प्रयोगविषयः । तथा च भाष्यम् । सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदाः सांगाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रव सामवेद एकविंशतिधा बाच्यं नवधाथर्वणो वेदः वाको वाक्यमितिहासः पुराणं वैद्यकमित्येतावान् प्रयोगस्य विषय इति । बचानामाम्नायो वाह्च्यम् । छन्दोगौक्थिकयाज्ञिकवचनटाज्ञ्य इति यप्रत्ययः । चरणाद्धर्मानाययेोरित्युक्तत्वादाम्नाये । अथर्वणा प्रोक्तो वेदो अथर्वा उपचारात्प्रयोग इत्येके । वसन्तादिषु अथर्वन् आथर्वण इत्युभयोः पाठसामर्थ्यात्मोक्तप्रत्ययस्य वैकल्पिको लुगिति तु तत्त्वम् । अत एव भाष्ये वक्ष्यते । तेन प्रोक्तमिति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः । वसिष्ठोनुवाकः । ततो वक्तव्यमथर्वणो वेति । तमधी आथर्वणिकः वन्सतादिवाक् । दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । आथर्वणिकस्यान्नाय आथर्वणः आथर्वणिकस्येकलोपश्चेति आथर्वणिकादण् तत्सन्नियोगेनेक लोपश्च । प्रकृतमनृसरामः । एतावन्तं प्रयोगविषयं पर्यालोचयितुमशक्तैरप्यस्मदादिभिर्लक्षणानुगतानां प्रयोगोस्तीत्यनुमेयम् । अस्ति चत्वयोदात्तानामपि वेदे प्रयोगः । सप्तास्ये रेवती रेव दूष । यन्मे नरः श्रुत्यं ब्रह्म चक्र । यत्रानश्चक्राजरसं तनूनामिति । ननु यदि लक्षणेनानादितासिद्धिस्तार्ह वचन्त्यादीनामपि स्यादिति चेत्, न । नहि वचिरन्तिपरः प्रयुज्यतइत्यभियुक्तानामविगीतव्यवहारेण सामान्यशास्त्रस्य सङ्कोचात् | अभ्युपगतो हि विशेपविषयिण्या पतितस्य कर्मानधिकारस्मृत्या अग्निहोत्रादिश्रुती
1
1