________________
१ पा. १ आ. शब्दकौस्तुभः । :
२५ त्पादनं कर्त्तव्यमिति स्थितम् । ननु किमिदं साधुत्वम् । साधयति बोधयतीति साधुरिति व्युत्पत्त्या बोधकत्वं तदिति चेन्न । गाव्यादावपि तत्सत्त्वात् । शक्तत्वं तदिति चेन्न । पचतीत्यादौ विकरणानामसाधुतापत्तेः । तेषामनर्थकत्वात् । डुपचप्लदइत्यादीनां साधुतापत्तश्च । लाक्षणिकेष्वव्याप्तेश्च । तेषामपि लक्ष्येर्थे ऽशक्तः । क्व चिच्छक्ततायास्तु अवास्वादिष्वतिप्रसक्तेः । - त्तिमत्वं तदिति चेत् । न । द्योतकेषु निपातेष्वव्याप्तेः । औपसंदानिकी शाक्तिरेव द्योतनेति चेत् । न । प्रोत्तरजित्वघोत्तरटत्वयोरविशेषेण विनिगमनाविरहाच्छक्ततापत्तौ व्यासज्यवृत्तिशक्तौ विश्रान्तेः । ततश्च अद्विवचनाद्यव्यवस्थापत्तिः । न च जातिविशेष एव साधुतेति वाच्यम् । कत्वादिना सङ्करापत्तेरिति । अत्राहुः। अनपभ्रष्टतानादियद्वाभ्युदययोग्यता। व्याक्रि. या व्यञ्जनीया वा जातिः काऽ पीह साधुतति । अस्यार्थः । शक्तिवैकल्यादिप्रयुक्तमन्यथोच्चारणमपभ्रष्टता तद्विरहोऽनपभ्रटता ॥ सैव साधुता सा चार्थविशेषान्तर्भावेणैव । तथाहि । यमर्थ शक्तया लक्षणया वा बोधयितुं द्योतयितुं वा याक्शब्दोनादिः प्रयुक्तस्तस्मिन्नर्थे दोषादन्यथात्वं प्राप्तः सोसाधुः । अन्यथा तु साधुरिति । येपि गाव्यादिष्वेव प्रथमं व्युत्पन्नाः सन्तस्तान्प्रयुञ्जते तेषामपन्यथोचारणमस्त्येव । तत्र च दोषणयोज्यतास्त्येव । मूलप्रयोक्तुभ्रेमाद्यन्यतमत्वात् । यद्वा अनादिता साधुता । अनादिरति तु श्लोके भावप्रधानो निर्देशः। आदेरभावो ऽनादिरिति वा । असन्देह इतिवत्तत्पुरुषः । अभ्युदययोग्यता वा ऽस्तु साधुता । रत्नतत्त्ववच्छास्त्रपरिशीलनशालिभिर्गम्यो जातिविशेषो वेति । यत्तु जातिसङ्कर इत्युक्तं, तन्न । गुणगतजातौ तस्यादोषत्वात् । तथाहि । यस्य देवदत्तादरेनो