SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुभः । १५१ किंतु अन्तरास्ये विततं चर्मास्ति पणवचर्मवत् । तत्संबद्धो रेखाविशेषो नासिका । सैव वर्णोत्पत्तौ निमित्तमिति सिद्धान्तात् । तस्याश्च ओष्ठादिभ्योऽविशेषात् वय वर्येण सवर्णः तुल्यास्यप्रयत्नत्वात् । रेफस्य रेफ एत्र सवर्णः एवमूष्मणामपि ऊष्माण एव सवर्णा नत्वन्ये । तुल्यास्यप्रयत्नत्वाभावात् । शपसहानां यथाक्रमं इकारऋकारऌकाराकाराः सूत्रकारमते यद्यपि तुल्यास्यप्रयत्नास्तथापि न सवर्णा नाज्झलाविति निषेधात् । भाष्यकारमते तु प्रयत्नभेद एवेति वक्ष्यते । इह स्थानभेदादमातां सवर्णसंज्ञां विधातुं वार्त्तिकमारभ्यते । ऋकारलकारयोः सवर्णविधिरिति । होतृऌकारः होतृकारः । उभयान्तरतमऌकारान्तरतमश्च दीर्घो न सम्भवतीति परिशेषादृकारः । स्यादेतत् । अकः सवर्णे दीर्घ इत्यत्र ऋतिऋवावचनं कृतिऌवावचनमिति वक्ष्यति । तस्यायमर्थः । अकः सवर्णे ऋतिपरे पूर्वपरयोः स्थाने वा ऋ अयमादेशो भवति । द्विमात्रोयम् । मध्ये द्वौ रेफौ । तयोरेका मात्रा । अभितोज्भक्तेरपरा । ईषत्स्पृष्टश्चायम् । तत्रः प्रयत्नभेदादृकारेणाग्रहणादनच्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोयं विधीयते । लृतिऌवेति । अयमपि द्विमात्रः ईषत्स्पृष्टश्च । मध्ये द्वौ लकारौ तयोरेका मात्रा अभितोज्भक्तेरपरा | पूर्ववदप्राप्तो विधीयते । तत्र वावचनमिति वाशब्दो दीर्घसमुच्चयार्थो भावष्यति । वा स्याद्विकल्पोपमयोरेवार्थेपि समुच्चये इत्यभिधानात् । तेनाप्राप्त एव दीर्घो भविष्यति । तत्किं सवर्णसंज्ञया । ननु ऌ तिलुवेत्यत्र सवर्णइत्यनुवर्त्तते न वा । आद्ये होतृऌकार इत्यत्र ऋलुवर्णयोः सवर्णसंज्ञाविधानं विना नेष्टसिद्धिः । अन्त्ये दलकारो मध्ऌकार इत्यादावतिप्रसङ्ग इति चेत् । न । प्रथमवार्तिके ऋतीत्यपनीय ऋतइति पंचम्यन्तपाठेनैव सर्वसामञ्जस्यात् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy