SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १५० शब्दकास्तुमः । [१० अयुग्मा वगयमगा यणश्चाल्पासवःस्मृताः।यद्यप्येते बाह्याःप्रयत्नाः सवर्णसंज्ञायामनुपयुक्तास्तथाप्यन्तरतमत्वपरीक्षायामुपयोक्ष्यन्तइतीह आभ्यन्तरत्वविशेषणव्यावर्त्यतया व्युत्पादिताः । नन्विह सूत्रे प्रयत्नग्रहणं व्यर्थम् । तद्धितान्तास्यशब्दबलादेव ताल्वादिस्थानस्य प्रयत्नस्य च लाभादिति चेन्न । प्रत्येकं व्यापारनिरासार्थमुभयोरुपादानात् । तेन स्थानप्रयत्नोभयसाम्ये सत्येव संज्ञा न त्वन्यतरसाम्यपि । एवंस्थिते यत्फलितं तत्स्पकृत्वार्थमुपन्यस्यते । अष्टादश अवर्णाः परस्परं सवर्णाः, एवमिवर्णोवौँ । ऋकारा अष्टादश । लवर्णास्तु द्वादशेति त्रिंशन्मिथः सवर्णाः लुवर्णस्य दीर्घा न संतीत्युक्तत्वात् । ऋलवर्णयोमिथः सावर्ण्यस्योपसंख्यानाच्च । एचस्तु द्वादश मिथः सवर्णाः न तु एकारैकारौ ओकारौकारौ वा मिथःसवौँ । यथा चैतत्तथा अइउणित्यत्रैव प्रतिपादितम् । अकारेणाप्येचां न सावर्ण्यम् । प्रयत्नभे. दादिति इहैव सूत्रे भाष्ये स्पष्टम् । अत एव एदेतोरपि शकारेण न सावर्ण्यमिति तेषां नाज्झलाविति सूत्रे उदाहरणत्वं नास्ति । न चात्र स्थानभेदेन विहिः एचामकारेण सह कण्ठस्थानसाम्यात् । एदैतोः शकारेण सह तालुस्थानसाम्यात् । नहि यावत्स्थानसाम्यं विवक्षितम् । अमङणनानां स्ववर्यैः सह असावापत्तेः यवलानां सानुनासिकनिरनुनासिकानामसाव पित्तेश्च । नहि निरनुनासिकानामपि नासिकास्थानम् । येन सर्वसाम्यं स्यात् । ननु तद्धितान्तास्यशब्दबलात्ताल्वादिसाम्यमात्र लभ्यते । ओष्ठात्प्रभृति माक्काकलकाद्धि आस्यम् । काकलकं च ग्रीवाया उन्नतपदेशः यं कण्ठमणिरित्याचक्षते । तत्कथं नासिकास्थानभेदेनासवर्णत्वमापाद्यतइति चेत् । नासिका हि न बाबा वर्णोत्पत्तौ निमित्तम् । तत्र जिव्हाग्रादिव्यापारविरहात्
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy