________________
१ पा. ४ आ. शब्दकौस्तुभः । . १४९ हन्ति ततोवर्णस्य तदभिव्यञ्जकध्वनेर्वा उत्पत्तिः तत्रोत्पते माग्यदा जिव्हायोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानन्ताल्वादिसम्यक् स्पृशन्ति तदा स्पृष्टता। ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता । समीपावस्थानमात्रे संवृतता । दूरत्वे विकृतता । अत एव इचुयशानां तालव्यत्वाविशेषेपि तालुस्थानेन सह जिव्हाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः यकारे ईषत् स्पर्शः शकारेकारयोस्तु दूरेवस्थितिरित्याउनुभवं शिक्षाकारोक्तिं चानुसृत्य विवेचनीयम् । भाष्यकारास्तु नाज्ज्ञलावित्यस्य प्रत्याख्यानावसरे ऊष्मणां स्वराणां च ईषद्विवृतत्वं विवृतत्वं चेति वैलक्षण्यं वक्ष्यन्ति । तदप्यनुभवानुसार्येवेति सहृदयैराकलनीयम् । बाह्याः प्रयत्नाः पुनरेकादश । विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणो महाप्राण उदात्तोनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्तेः पश्चान्मूर्टिन प्रतिहते निवृत्ते प्राणाख्ये वायौ उत्पधन्ते । अत एव बाह्या इत्युच्यन्ते । गलबिलस्य सङ्कोचात्संवारः। तस्यैव विकासाद्विवारः । एतौ च संवृतविवृतत्त्वरूपाभ्यां आभ्यन्तराभ्यां भिन्नावेव । तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम् । तत्र वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयाजव्हामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषा वर्गयमानां प्रथमे अल्पप्राणा इतरे सर्वे महाप्राणाः वर्गाणां तृतीयचतुर्था अंतस्था हकारानुस्वारौ यमौ च त. तीयचतुर्थौ संवृतकण्ठा नादानप्रदाना घोषवंतो वर्गाणां तृतीया अंतस्थाश्चाल्पपाणा यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामपरो गुण इति शिक्षासु स्थितम् । संग्रहश्च । खयां यमाः खयः क पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्यः संवृता नादभागिनः ।