________________
१४८
शब्दकौस्तुभः । [१ अ० ख्यवाद्यप्रयत्नसाम्यं चशयोरपि । ननु अल्पमाणत्वमहापाणत्वकृतो भेदोस्तीति चेत् । किं ततः । नहि सर्वप्रयत्नसाम्यं वि. • वक्षितुं शक्यम् । अकित इत्याधसिद्धिप्रसङ्गात् । कङयोरपि बाह्यप्रयत्नभेदात् । सर्वप्रयत्नसाम्यं हि स्वस्य स्वेनैवायाति न तु परेण । तथा च सवर्णसंज्ञाप्रणयनमपि व्यर्थ स्यात् । अणुदिसुल्पास्यप्रयत्नस्येत्युक्तौ सर्वसामञ्जस्यात् । झरोझरीत्युक्ते हलोयमांयमीत्यत्रेव यथासंख्यप्रवृत्त्या माहात्म्यामित्यादौ मकारस्येव शिण्ढीत्यादौ डकारस्यापि लोपो न स्यादिति हि सिद्धान्ते सवर्णग्रहणं कृतम् । स चाव्याप्तिदोषो यावत्प्रयत्नसाम्यविवक्षायां तदवस्थ एव स्यात् । अथ यावद्वाह्यसाम्यं यावदाभ्यन्तरसाम्यं वा विवक्ष्येत एवमपि मधुलिट्स्थानमित्यत्र झरोझरीति सलोप: स्यात् । सकारथकारयोः श्वासाघोषविवारमहापाणत्वरूपबाह्यप्रयत्नचतुष्टयेनापि साम्यात् । अथ स्थानप्रयत्नविवेकः । अकुह विसर्जनीयाः कंठ्याः । इचुयशास्तालव्याः । ऋटुरषा मूर्धन्याः । लुतुलसा दन्त्याः । उपूपध्मानीया ओष्ठयाः । एऐ कण्ठ्यतालव्यौ । ओऔ कण्ठयोष्ठयौ । वकारो दन्त्योष्ठयः। जिव्हामूलीयो जिव्हामूलस्थानः । अनुस्वारो नासिक्यः । यत्नो द्विधा । आभ्यन्तरो बाह्यश्च । तत्राभ्यन्तरश्चतुर्द्धा । स्पृष्टता ईषत्स्पृष्टता विकृतता संवृतता चेति । तत्र स्पृष्टता स्पर्शानाम् । ईषत्स्पृष्टता अन्तस्थानाम् । इस्वस्यावर्णस्य प्रयोगे संवृतता । शास्त्रीय कार्ये तु विवृतता । प्रतिज्ञायतइति अइउणसूत्रे प्रतिपादितम् । स्वृतः संवृता इति तु प्रातिशाख्योक्तत्वान्न सर्वसाधारणम् । ऊष्मणां स्वराणाञ्च विवृत्तता । एषां चतुर्णामप्याभ्यन्तरत्वं वर्णोत्पत्तिप्राग्भावित्वात् । तथा हि। नाभिप्रदेशात्मयत्नप्रेरितो वायुः प्राणो नाम उर्ध्वमाक्रामन्नुर प्रभृतीनि स्थानान्या