________________
१ पा. ४ आ.
शब्दकौस्तुमः ।
१.४७
शब्दः । अस्यन्ति उच्चारयन्ति अनेन वर्णानित्यास्यं असुक्षेपणे, बाहुलकात्करणे ण्यत् । यद्वा । आस्यन्दते अन्नं प्राप्य द्रवीभवतीत्यास्यम् । अन्येष्वपीति डप्रत्ययः । अथ वा अनेन द्रवीक्रियतइत्यास्यं अन्तर्भावितण्यर्थात्कर्मणि डः परितः खाता परिखेतिकत् । तत्र भवमास्यम् । ताल्वादिस्थानम् । शरीरावयवाद्यत् । यस्येतिलोपे हलोयमामिति यलोपः । न चाल्लोपस्य स्थानिवद्भावः शङ्कयः । यलोपे कर्त्तव्ये तन्निषेधात् । प्रकृष्टो यत्नः प्रयत्नः प्रकर्षश्चाभ्यन्तरत्वम् । प्रारम्भे यत्नो वा प्रयत्नः आभ्यन्तरप्रयत्ना हि वर्णप्रारम्भकालएव व्याप्रियन्ते । तथा च तु
1
स्थानप्रयत्न यस्येति द्वंद्वगर्भो बहुव्रीहिः । यद्वा । तुल्यः आस्ये प्रयत्नो येषामिति त्रिपदो बहुव्रीहिः आस्ये इति विशेषणाद्वाह्यप्रयत्नव्युदासः । आस्यइत्येकत्वं विवक्षितम् । तद्धितान्तास्यशब्दोपादानसामर्थ्यात् । तेन भिन्नस्थानानामर्थाव्यृदासः । यद्वा । तुल्यः आस्ये तुल्यास्यः मयूरव्यंसकादित्वात्साधुः तुल्यास्यः प्रयत्नो यस्येति विग्रहः । यद्वा । आस्ये प्रयत्नः आस्यप्रयत्नः स तुल्यो यस्यति । एकत्वविवक्षादिकं प्राग्वत् । तदेवं समासचतुष्टयमपि भाष्ये स्थितम् । द्वंद्वगर्भो बहुव्रीहिः, त्रिपदो वा । पूर्वभागे तत्पुरुषगर्भः उत्तरभागे वेति । तुल्यशब्दस्य सम्बन्धिशब्दत्वाच्च येन सह तुल्यस्थानप्रयत्नं तेन सह सवर्णमिति लभ्यते । नहि माता पूज्येत्युक्ते स्वसुतमाता भार्या पूज्यते किं तु पूजकस्यैव मातेति दिक् । तुल्यस्थानमिति किम् । तुल्यमयत्नानामपि कचटतपानां मा भूत् । तेन सप्र्तेत्यत्र झरोशरीतिपकारलोपो न भवति । यत्नग्रहणं किं चकारशकारपोर्मा भूत् । सति हि सावर्ण्ये वाक्श्चयोततीत्यत्र शकारलोपः स्यात् । आभ्यन्तरत्वविशेषणमप्येतदर्थमेव । अस्ति हि श्वासाघोषविवारा