________________
शब्दकौस्तुभः । . [१० मपि तद्वदवभासते । तथा च नासिकान्वयस्य भागमात्रवि. षयतया नासिकावचनग्रहणेन मुखनासिक्योवर्णो न गृत्येत । किं तु मतविशेषे केवलनासिकास्थानतया यमादय एव गृोरन् । ततश्च विधिप्रदेशे आडगेनुनासिक इत्यादौ यमानुस्वारा एव विधीयेरन् । विड्वनोरनुनासिकस्यादित्यादौ त्वनुवादे अप्रतिपचिरेव स्यादित्युदात्दृतभाष्याशयः । तस्मादर्शनद्वये मुखपदोपादानं सार्थकमिति स्थितम् । प्रथमदर्शने तु मासादवासिन्यायाश्रयणेनोभयवचनानामपि सिद्धा संज्ञा । आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः। तथा च मुखशब्दोपादानं न कर्तव्यमिति भाष्ये स्थितम् । मुखवचनइत्येवोक्ते तु कचटतपादीनामपि स्यात् ततश्च शक्त इत्यत्र कलोपः स्यात् । पक्क इत्यत्र चकारलोपः स्यात् । तप्तमित्यत्र पलोप: स्यात् । ओदनपगित्यादावनुनासिकस्य किझलोरिति दीर्घः स्यात् । अनु पश्चामा. सिका व्याप्रियते यस्मिन्नासिकायाः पश्चान्मुखं व्याप्रियते यस्मिनिति वा ऽन्वर्थसंज्ञेयं तेन नासिकाव्यापारस्य भागविषयकत्वसूचनात्मासादवासिन्यायस्याविषयोयमिति ध्वनितम् । एतच्च सूत्रं प्रत्याख्यातुं शक्यम् । प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलष्टसिद्धिरिति दिक् ॥
तुल्यास्यप्रयत्नं सवर्णम् ।। ताल्पादिस्थानमाभ्यन्तरप्रयत्नश्वेत्युभयं यस्य वर्णस्य येन वर्णेन सह समानं स तस्य सवर्णो बोध्यः । संज्ञाप्रदेशाः, अकः सवर्णेदीर्घ इत्यादयः । यद्यपि तुलया सम्मितं तुल्यमित्यवयवार्थः नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यमाप्यवध्यानाम्यसमसमितसम्मितेष्विति सूत्रेण तुलाशब्दात्सम्मिते यद्विधानात् । तथाप्ययं सदृशमात्रे रूढः