________________
१ पा. ४ आ. शब्दकौस्तुभः ।
१४५ वर्ती नासिकास्थानो यम इति । यत्तु कश्चिदाह । यमा आदेशाः, न च तेषामानुनासिक्यपक्षे तज्ज्ञस्तघ्नन्तीत्यादौ यरोनुनासिक इत्यनुनासिकादेशापत्त्या नैव दोषो नैव प्रयोजनमिति भाष्यं विरुध्यतति वाच्यम् । व्यवस्थितविभाषाश्रयणादिति । तत्तुच्छम् । मागुक्तमातिशाख्यनारदीयशिक्षादिसकलग्रन्थविरोधेन आदेशपक्षस्य गर्भस्रावेणैव गतत्वात् । व्यवस्थितविभाषाकल्पनस्य निर्मूलत्वाच्च । एतेन एतदीयलेखनप्रामाण्यभ्रमण अनुपसर्गातज्ञ इत्यादौ चवर्गाभावं दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोपि परास्ताः । नारदेन यज्ञ इत्यत्र जकारद्वयस्य स्फुटमभिधानात् । तस्यैतस्य त्रयस्यास्थ्नामज्ञां पर्वणामितीत्यारण्यकप्रयोग इव सजातीयसमाभिव्याहारान स्पष्टो भेद इति तु प्रसिद्धं शास्त्रे । अत एव न व्यञ्जनपरस्यैकस्पानेकस्य वा विशेषोस्तीति भाष्यम् । व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवंभूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवंपरतया तत्रतत्र कैयटेन व्याख्यातम् । अत एव च बहुषु पुस्तकेषु तज्ज्ञापयत्याचार्य इति भाष्यग्रन्थः । अनुपसर्गादितिसूत्रेपि केषाञ्चित श्चुत्वपाठः सम्मत एव । पाठान्तरं तु अल्पान्तरं, आलुच् तदसहने इति वत्सौत्रत्वादसंहितया वा समाधयमिति दिक् । तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम् । तज्ज्ञानमित्यादौ तु श्चुत्वं भवत्येव । यमश्च मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् । नासिक्या नासिकास्थानाः मुखनासिक्या वेति तैत्तिरीयप्रातिशाख्यात् । अनुनासिकविषये तु दर्शनत्रयम् । कृत्स्नो वर्णो मुखेन नासिकया चोचार्यतइत्येकम, पूर्वो भागो मुखेन परो नासिकयति द्वितीयं, तद्वैपरीत्यात्तृतीयं, द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेपि तदुपरागाद्भागान्तर