________________
१५२ शब्दकौस्तुभः । [१ अ० सवर्णइति च पूर्ववार्तिकेनुवर्तते । तेन धात्रंश इत्यादौ नातिप्रसङ्गः । द्वितीयवार्तिके तु सवर्णइति निवृत्तम् । ऋत इत्यनुवर्तते । तस्मादकः सवर्ण इत्यत्रावश्यकर्त्तव्येन वचनद्वयेनैव सकलनिर्वाहाहकारलकारयोः सवर्णविधिरितीहत्यं वातिकं व्यर्थमिति । मैवम् । इहत्यमेकं वार्तिकमाश्रित्य पाष्ठवचनद्वयप्रत्याख्यानस्यैव न्याय्यत्वात् । तथाहि । तद्वचनद्वयं कुर्वतापि रेफद्वयलकारद्वयगर्भयोस्तद्विधेययोरच्त्वं तावदेष्टव्यम् । तनिर्वाहार्थ वर्णसमाम्नाये तो पठनीयौ । अन्यथा हि विधानमात्रमनयोः स्यान्न त्वच्कार्य प्लुतः । तद्विधाने ह्यचश्चेति परिभाषयाच इत्युपतिष्ठते । ननु ईषत्स्पृष्टस्यानच्त्वान्मा भूत्प्लुतः विवृतस्य तु ऋकारस्यान्त्वेन प्लुतः सिद्ध एवेति चेत् । सत्यम् । विवृतः प्लुतः सिद्धः ईषत्स्पृष्टौ तु प्लुतौ रेफद्वयलकारद्वयगर्भो न सिध्यतः । अत एवाचसंज्ञामात्रेणापि न निस्तारः । ग्रहणकशास्त्रप्रवृत्तेस्तावन्मात्रेणानिर्वाहात् किं त्वण्सु पाठ एव कर्तव्य इत्युक्तम् । सति त्वण्मु पाठे ताभ्यां त्रिमात्रयोरपि ग्रहणात्प्लुतसंज्ञायां सत्यां पक्षे ईषत्स्पृष्टौ प्लुतौ भवनः एवंस्थिते षाष्ठं वचनद्वयं मास्तु । तद्विधेययोरपि दीर्घतयाकः सवर्ण इत्यनेनैव सिद्धेः । ननु स्थानेन्तरतमपरिभाषया विकृतस्य स्थानिनो विवृतावेव दीर्थों स्थातां न त्वीपत्स्पृष्टाविति चेत् । न । रेफद्वययुक्तस्य स्थानिनो रेफद्वययुक्त एवादेशःसुसदृश इत्यपि हि सम्भवति तथा च किं रेफद्वययुक्तत्वमादर्तव्यं, किं वा वितत्वमित्यत्र विनिगमकाभावेन पर्यायेणोभयप्रवृत्तौ सिपाधयिषितस्य रूपरयस्य निर्वाहात् । लकारेपि कदा चिदृकारान्तरतमो विवृतदीर्घः कदाचिद् लकारान्तरतमो लकारद्वयगर्भ ईषत्स्पृष्ट इति सकलेष्टसिद्धः । तदेवं षाष्ठं वचनद्वयं न कर्त्तव्यमिति स्थितम् । ननु तदेवा