________________
शब्दकौस्तुमः।
[१ अ० त्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृष्येह विधातुमशक्यत्वादिति । अत्राहुः । माठीत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसक्ते साधुत्वं मृद्धिरित्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते । येनान्योन्याश्रयः स्यात् । उक्तं च वार्तिककृता । सतो -
यादिषु निमित्तभावात्तदाश्रय इतरेतराश्रयत्वादप्रसिद्धिः। सि. दं तु नित्यशब्दत्वादिति । अथ लक्षणैकचक्षुष्कः कश्चिद्व्याकरणबलेनैव मार्टीत्यादिप्रयोगेषु व्युत्पित्सेत तथापि न क्षतिः। शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या मार्टीत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात् । सामान्य लक्षणानभ्युपगमपक्षे त्वात्वजानौ शक्तिय. हात् शक्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा । अन्यथा गेहे घटोस्तीति वाक्यादप्यपूर्वव्यक्तिने गृह्यतेति दिक् अत एव नवेतिविभाषति सूत्रे भाष्यकारो वक्ष्यति।साधुत्वस्य विधेयत्वे विभाषारित्यादिना तस्यैव विकल्पापत्तिः।तस्मात्सम्प्रसारणायेव विकल्प्यतइति।एषैव लडादिविधौ गतिः।न चैवं साध्वनुशासनत्वभङ्गः । साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानमिति कुन्मेजन्तसूत्रे विवरणकारादिभिरुक्तत्वात् । केवलविधानपि यदिह परिनिष्ठितं तत्साध्विति श्रु. तार्थापत्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धेश्च । इह च प्रत्येक वाक्यपरिसमाप्तिः । मालादीनां चेत्यादिलिङ्गात् । ब्राह्मणा भोज्यन्तामित्यादौ तथा दर्शनाच्च । यद्यपि गर्गाः शतं दंड्यन्तामित्यादौ समुदायेपि वाक्यपरिसमाप्तिदृश्यते । गुणकर्मभूतानामपादानस्थानापन्नानांगर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्यावृत्त्ययोगात् । तथापीह शास्त्रे यत्न