________________
शब्दकौस्तुभः ।
[१ अ० से बकारमात्रश्रवणप्रसङ्गात् । हलादिःशेषेण जकारस्य निवतेः । यदि तु पूर्वत्रासिद्धमद्विवचन इत्युक्तेः सबकारस्य द्वित्वं तदा स्पष्ट एव बकारस्य शेषः । अथ उभौ साभ्यासस्येत्यनेनानित्यताज्ञापनाद् द्विवचनेप्यसिद्धत्वमाश्रीयते । औजिढदित्यत्र यथा । तथाप्यभ्यासे उपध्मानीयस्य शेषे अभ्यासे चर्चेति जश्त्वेन बकार एव श्रूयेत । इष्यते त्वभ्यासे जकार इति प्राञ्चः । वस्तुतस्तु द्वितीयपक्षे उपध्मानीयमात्रमभ्यासे झूयेत तच्चोचारयितुमप्यशक्यम् । जगत्वं तु दुर्लभम् । प्रकृतिचरां प्रकृतिचर इत्यष्टमे सिद्धांतयिष्यमाणत्वात् । उपध्मानीये ऽच्त्वस्यापि सत्वेन तावन्मात्रद्वित्वापत्याभ्यासे इकारदौलैंभ्याच्च । किं च । अत्र पक्षे अस्मात् घधि कृते उपध्मानीयस्य जश्त्वे अभ्युजाः समुब्जा इति स्यात् । इष्यते त्वभ्युद्गः समुद्र इति । नन्वत एव कुप्वोरित्यधिकारे सोपदादाविति सूत्रे उपध्मानीयस्य चेति वात्तिकेन. कवर्गे परत उपध्मानीयस्य सकारो विधीयते ततो जश्त्वेन दत्वं विधीयते इति चेत्सत्यम् । उपध्मानीयस्य चेति वार्तिकारंभ एव तु गौरवाई इति ब्रूमः । बकारोपधोयमितिवृत्तिकारमते. तु बकारस्य द्वित्त्वनिषेधः समुद् इत्यादौ दकारादेशश्चेत्युभयमपि वचनेनैव साधनीयं स्यात् । तस्माकारोपध एवायमभ्युद्गः समुद्ग इति यथा स्यात् । कथं तार्ह उब्जिता उब्जितामित्यादि सिध्यतीति चेत् । शृणु । भुजम्युन्जौ पाण्युपतापयोरित्यस्मिन्कुवाभावनिपातनार्थे सूत्रे बकारोच्चारणेनानुमीयते। उब्जेरकुत्वविषये दकारस्य भकारविधायकं बकारविधायकं वा वचनमस्तीति तच्चानुमीयमानं वचनं भउद्जेरिति वा । बउदजेरिति वा उभयथापि स्तोश्चुना श्चुरित्यस्यानन्तरं कल्यते । उद्ज: