________________
१ पा. २ आ. शब्दकौस्तुभः । स्तोर्दकारस्येति यावत् । श्चुना योगे भकारो बकारो वा भवतीति सूत्रार्थः । उद्जेरिति किम् । तज्जः । श्चुनेति किम् । अभ्युद्गः समुद्गः इह हिचजोः कुपिण्ण्यतोरिति कुत्वे कृते चुना योयो नास्ति, स्तोः श्चुनोति पदद्वयोपजीवनाथ चोक्तस्थलएव कल्पनं युक्तम् । अन्यथा बहुतरकल्पने मौरवं स्यात् । एवमुब्जिजिषतीत्यपि सिद्धम् । नन्द्रा इति दकारस्य द्वित्वनिषेधात् । न च परत्वाद्भत्वबत्वे । पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादु. त्तरस्येति वक्ष्यमाणत्वात् । अन्तरङ्गत्वाद्भत्वबत्वे इत्यपि न । असिद्धत्वादेव । न च पूर्वत्रासिद्धीयमाद्विर्वचने इत्यसिद्धत्वमः त्तिषेधः शक्यः । द्वित्वे कर्तव्ये सति हि स निषेधः । न तु द्वित्वनिषेधेपि । इह तु नन्द्रा इति सूत्रेण द्वित्वनिषेधे कर्चव्ये निर्बाधमेवासिद्धत्वामति दिक् । अथवा मास्तु वाक्यशेषानुमानं भुजन्युजाविति निपातनादेव बकारो स्तु । नचैवमसिद्धताविरहाद्वकारस्यैव द्वित्त्वं स्यादिति बाच्यम् । दकारोपधनिर्देशसम्माज्जिशब्दस्य द्वित्वे कृते ततो दकारस्य बकारमवृत्तेः । न चास्मिन्पक्षे ऽभ्युद्ग इत्यादावपि बकारप्रसङ्गः । अकुत्वविषये एव बकारो निपात्यतइत्यभ्युपगमात् । नन्वेवं कुत्वविषये चरितार्थत्वात्कथं दकारोपदेशस्य सामर्थ्यमुक्तम् । येन द्वित्वानन्तरमेव बकारः प्रवर्तेतति चेत् । अनभिधानादतो घनादि मास्तु निपातनं चैवमविशेषेणास्तु । अभ्युद्गः समुद्ग इत्येतनोब्जे रूपम् । किं तु उपसर्गद्वयपूर्वकाद्गमेरन्येष्वपि दृश्यतइति डप्रत्ययः । व्युत्पत्तिमात्रं चेदम् । रूढिशब्दत्वात् । समुद्गकः सम्पुटक इत्यमरः। तदेवमयोगवाहानां शपदेशस्य जश्त्वाभावरूपं प्रयोजनं वार्तिकमते ऽस्ति । भाष्यकारमते तु नास्तीति स्थितम् । तथा षत्वमपि प्रयोजनं सार्पःषु धनुषु । नुविसर्जनी