________________
४८०
शब्दकौस्तुमः । [१ अ० नेपदं स्यात् । येन निमित्तेन सनः प्रकृतेरात्मनेपदं विधीयते तदेव निमित्तं सना व्यवहितं सदप्यात्मनेपदं प्रवर्त्तयतीत्यर्थः । इह सूत्रे तेनतुल्यमिति तृतीयान्ताद्वतिर्न तु पञ्चम्यन्तात् । लक्षणाभावात् । यथा च ब्राह्मणेन तुल्यं वैश्यादधीत इत्यत्र ब्रामणादिवेति गम्यते तथेहापि पूर्वस्मादिवेति गम्यते । ब्राह्मणापादानकेध्ययने ब्राह्मणशब्दस्य. लक्षणया ब्राह्मणापादानकाध्यवनसादृश्यं वैश्यापादानकाध्यापनमिति क्रियासाम्यं दृष्टान्ते निर्वाह्यम् । अन्यथा वतिप्रत्ययायोगात् । यदाह तेन तुल्यं क्रिया चेदिति । एवञ्च प्रकृतपि आत्मनेपदभावनस्य तुल्यत्वं बोध्यम् । तदपि निमित्तस्य तुल्यत्वात्तद्वारकमिति फलितोर्थः । एतेन शब्दो नित्यः कृतकत्वात् घटवदित्यादि व्याख्यातम् । तत्रापि भवनक्रियायाः साम्यात् । अन्यथा वत्सत्ययासाधुतापत्तेः । अत एवानित्यो भवितुमर्हतीति प्राञ्चः प्रयुञ्जते । साध्यपदस्य ज्ञाने लक्षणया ज्ञानयोः साम्यं वाक्यार्थ इति वास्तु । सर्वथापि शब्दघटयोः साम्यमार्थ न तु शाब्दमिति दिक् । आसिसिषते । शिशयिषते । निविविक्षते बुभुक्षतइत्यादि । इह तु न भवति । शिशत्सति मुमूर्षति । न ह्येषा शदिम्रियतिव्यक्तिः शितः प्रकृतिः अतो नात्मनेपदनिमित्तम् । कृते हि सनि सन्नन्तमेष शितः प्रकृतिः । शिशयिषतइत्यादौ तु प्रकृतौ डित्त्वानपायानिमित्तातिदेशः सम्भवत्यवति वैषम्यात् । नन्वेवमनुचिकीर्षतीत्यत्रातिप्रसङ्गः । गन्धनादेरर्थस्य बित्वस्य चात्मनेपदनिमित्तस्यातिदेशापत्तेरिति चेन । अनुपराभ्याङ्कअ इति वचनपर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैवात्मनेपदनिमित्तताध्यवसायात् । अस्तु वा प्राधान्यात्कार्यस्यैवातिदेशः पाक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति । न