________________
१ पा. ८ आ. · शब्दकौस्तुमः श्लेष्मघ्न इत्यादावुपधालोपः कारणा हारणेत्यादौ णिलोपः निपूर्ता इत्यादावुत्त्वं चेत्येतानि नव बिभिदतुरित्यादौ सावका. शेन द्वित्वेन पूर्वविप्रतिषेधावाध्यन्ते,तेन चक्रतुः चिचाय लुलाव चिचयिथ लुलविथ पपतुः तस्थतुः जग्मतुः जघ्नतुः आटिटत् ततुरिः जगुरिरित्यादि सिद्धम् । नन्वेवं निन्यतुरिति न स्यात्, इयङ इहापरिगणितत्वादिति चेन । एरनेकाच इति यह भाव्यमिति प्रागपीयङोप्रवृत्तेः । प्रकल्प्य चेति न्यायात् । तस्माद् द्विवचनेचीति सूत्रं विनापि सर्व सिद्धमिति । भाष्यकारास्तु सूत्रं समर्थयन्ते । तथाहि । विप्रतिषेधस्तावदयुक्तः । आल्लोपादीनां नित्यत्वात् । द्वित्वस्यानित्यत्वेनातुल्यबलत्वात् । किं च पूर्वविप्रतिषेधे सर्वत्र वचनस्यारम्भणीयत्वादिह तु सुतरां तथेति क लाघवम् । अपि च। क्रियमाणमपि वचनं यद्यन्तरङ्गाणामपि वाधकं तर्हि निनवनीयिषति दिदवनीयिषतीत्यादावप्यभ्यासे उकारः श्रूयेत । अथात्रान्तरङ्गत्वादवादेशः,वचनं तु नान्तरगाणां बाधकं किन्तु नित्यानामेवेति ब्रूयाः । एवमपि चुक्षावयिषतीत्यादौ वृद्धयावादेशयोः प्रवर्तनादभ्यासे इत्वं स्यात् । तथा च तद्वाधनाय उत्त्वं विधेयम् । तथा च त्वया इत्थं न्यासः कर्त्तव्यः । उत्परस्यातः, तिच, ओदौदादेशस्य चुटुतुशरादेरिति । अभ्यासस्येति वर्त्तते । ओदौतोरादेशो यस्मिन्नने तस्य योभ्यासश्चुटुतुशरादिस्तस्य योकारस्तस्य उत्स्यादित्यर्थः । यथा चुक्षावयिषति उडुडावयिषति तुतावयिषति ऊdनावयिषति शुशावयिषति पुस्फारयिषतीति । अत्र चिस्फुरोर्णावित्यात्त्वम् । यद्यपीह खयः शेषे कृते शरादित्वं नास्ति तथाप्यभ्याससंज्ञाप्रवृत्तिकालेस्त्येवेत्यवधेयम् । ओदौदादेशस्येति किम् । चाय पूजायां, चिचायिषति, खदस्थैर्ये, चिखदिष