SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३२० शब्दकौस्तुभः। [१० ज्यादयो बदन्ताः । अत एवानकान्त्वेन पोपदेशत्वाभावान्न षत्वम् । षोपदेशलक्षणे ह्येकाच्त्वं विवक्षितमिति माधवीये स्पष्टम् । एतच्च सेगादिपर्युदासात् ष्वष्कस्त्रिदादिसाहचर्यात् सोसूच्यतइत्यादिभाष्योदाहरणाञ्च निर्णीयतइति वक्ष्यते । एवं वाक्यशेष समर्थयिष्यामहे । प्रार्थनाध्यवसायैः सम्मश्नप्रार्थनेषुलिडित्यादिप्रयोगाश्वेह मानम् । तदेतत्सकलमाभिसन्धायादन्तत्व सार्यक्याय वा ऽल्लोप इत्याहुः । उक्तञ्च कामधेनौ । अग्लोपित्वं स्थानिवन्त्वं चादन्तत्वप्रयोजनम् । यत्र त्वेते न विद्यते तत्राल्लोपविकल्पनमिति । कथयत्याद्यभिप्रायेण पूर्वार्द्धम्, 'अइयत्याद्यभिप्रायं तूत्तरार्द्धमिति विवेकः । नन्वाञ्चकदित्यत्र दीर्घोलघोरिति प्राप्ते ऽनग्लगइति निषेधेनाकारश्चरितार्थ इति चेनी चपरे णौ यदङ्गं तस्य योभ्यास इति सूत्रार्थव्यवस्था- . पनात् । इह त्वावयवस्याभ्यासो न त्वङ्गस्य । एतच्चोणुधातौ माधवग्रन्थे स्पष्टम् । अत एव आटिटदित्यादौ न दीर्घः । यत्तु दीर्घविधौ हलादिरिति विशेषणं कौमुद्यां दत्तं तबिमूलम् । औ नवदित्यादेः सिद्धावपि सन्वल्लघुनीत्यत्र चपरे इत्यङ्गस्य विशेषणं लघोर्वेति मतभेदेनेष्यमाणे अचिचकासदचचकासदिति रूपद्वयेप्यतिप्रसक्तं च दीर्घविधौ चङ्परइत्यस्य लघुविशेषणतामाश्रित्यार्थसिद्धकथनं तदिति वा समाधेयम् । सिद्धान्ते तु माधवोक्तरीत्या ऊर्णावयतोरव चकासयतेरपि दीर्घाभावः स्पष्ट एवेति दिक् । एतच्च सूत्रं वार्तिककारः प्रत्याचख्यो । तथाहि । षष्ठे द्वित्वप्रकरणान्ते विप्रतिषेधः पठ्यते । द्विवचनं यणयवायावादेशाल्लोषोपधालोपणिलोपकिकिनोरुत्वेभ्य इति । तथा च दध्यत्रेत्यादौ सावकाशो यण् । चयनं चायको लवनं लावक इत्यादौ चायवायावः । गोदः कम्बलद इत्यादावाल्लोपः।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy