________________
३२२
शब्दकौस्तुभः ।
[ १ अ०
ति । चटतुशरादेः किम् । विभावयिषति । अत इति किम् । ऋजुम् अणुम् ऋतुम् अंशुं चाख्यत्, आर्जिजत्, आणिणत्, आर्त्तितत्, आंशिशदित्यत्र परत्वादवृद्धौ सत्यां टिलोपे सणिच्कस्य द्वित्वे कृते मा भूत् । अभ्यासस्यति किम् । चटुत्वित्यादि तर्ह्यङ्गस्यातो वा विशेषणं स्यात् । उभयथापि दोषः शीतं लुनाति शीतलूः सूर्यः, तमाख्यातुमिच्छति शिशीतलयिषतीत्यत्र तकारादुत्तरस्यात उत्प्रसङ्गात् । नन्वेवमप्यौजढदाञ्चकदित्यादावभ्यासे ऽकारश्रवणार्थं यत्नान्तरमास्थेयमेवेति गौरवान्तरं वार्त्तिककारं प्रति कुतो नापादितमिति चेन्न । तत्रेकार एवेष्ट इत्युक्तत्वात् । सजातीयापेक्षं हि सिद्धान्तेपि ज्ञापकम् । अन्यथा अचिकीर्त्तदित्यत्राभ्यासे ऽकारश्रवणापत्तेः । तस्माद्वार्तिक कृता वचनद्वयमपि कर्त्तव्यं स्यादिति स्थितम् । तथा जग्लावित्यादिसिद्धये विप्रतिषेधवार्त्तिके वृद्धिरपि पाठ्या तथा ओ: पुयजीति तृतीयमपि कर्त्तव्यमेव । पिपविषते यियविषति जिजा - वयतीत्यत्र इत्वं यथा स्यात् । तथाहि । पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृते पूर्वविप्रतिषेधेनावादेशात्पूर्वं द्वित्वमितीत्वं वक्तव्यमेव । तथा जुचङ्क्रम्येत्यत्र निर्दिष्टशत्सौत्राज्जुधातोर्ण्यन्तात्याने जिजावयिषतीत्यत्र चुटुतुशरादेरित्युत्वे प्राप्ते तद्बाधनाये - त्वं वक्तव्यम् । न च तत्र वकारमेव पठिष्यामि न तु चुशब्दमिति वाच्यम् । गुङ् घुङ् ध्वनौ । आभ्यां णिजन्ताभ्यां चङि सनिच अजूगवत् अजूघवत्, जुगावयिषति जुघावयिषतीत्याद्यसिद्धिप्रसङ्गात् । किश्च । दिदवनीयिषति निनवनीयिषतीत्यत्र चुटुतुशरादे रित्युत्वं स्यादिति तद्वारणाय वचनान्तरमास्थेयम् । अथ वा सन्यत इति सूत्राद्गुणोयङ्लुकोरित्याद्यष्टसूत्र्या विच्छिन्नमपि सन्ग्रहणं मण्डूकप्लुत्यानुवर्त्य सूत्रमतोक्तरीत्या येन नाव्यवधानन्यायेन
1