SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुभः । ३२३ णिभिन्नैर्व्यवधाने उत्वं नेति समाधेयम् । एवमपि तनुशब्दादाचारकिबन्ताद्धेतुमण्णौ सत्यसति वा यदा सन् तत्र तितनविष. ति तितनावयिषतीत्यत्राप्युत्वं स्यात् , तद्वारणाय ओदौदादेशस्येति वार्तिकमन्यथैव व्याख्येयम् । तद्यथा । अभ्यासस्येत्यायवषष्ठी । ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी । उभयमप्यतो विशेषणम् । तदयमर्थः । अभ्यासस्यावयवभूतस्तथा ओदौदादेशस्य यथायथमवयव आदेशो वा यो ऽत्तस्योद्भव ति । चुलावयियतीत्यवयवः । पुस्फारयिषतीत्यादेशः । तथाचा. द्ग्रहणमपि सार्थकम् । अन्यथा आटिटदित्यादिसिद्धये चारे णौ यदङ्गं तदवयवे लघौ सन्वदतिदेशादार्जिजदित्यादौ पतिप्रसङ्गविरहादत इति व्यर्थ स्यादिति दिक् । तथा च सूत्रमतापेक्षया वार्तिकमते महदेव गौरवमिति । स्यादेतत् । मास्तु प्रकतसूत्रं मा च वार्तिकम्। ओःपुयणित्येतदेव ज्ञापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विवचनं स्यादिति । ततो द्वितते कृते यथाप्राप्तं यणादि करिष्यते । मैवम् । निनवनीयिषति दिदवनीयिपतीत्याद्यसिद्धः। किञ्च सामान्यापेक्षं ज्ञापकं विशेषापेक्षं वा । आये, अचिकीदिति न सिध्येत् । अन्ये, चक्रतुरित्यादि न सिध्येत् । तस्मात्सूत्रं कर्त्तव्यमेव । चुझावयिषतीत्यादिसिद्धये तु ओः पुयणिति ज्ञापकमाश्रयणीयम् । तच्च तुल्यजातीयापेक्षमिति स्थितम् । अत एव वामनोदाहृतमौजढदिस्येतद्भाष्यविरुद्धमिति बोपदेवोपष्टम्भेन प्रपञ्चितं प्राक् । वस्तुतस्तु कामनोक्तं सम्यगेव । यतः । वोपदेवो महाग्राहग्रस्तो वामन दिग्गजः । कीतैरेव प्रसङ्गेन माधवेन विमोचितः । तथाहि । किं वामनोक्तो. वार्तिकदूषणपरभाष्यविरोधः । किं वा सजातीयविषयज्ञापकतावर्णनभाष्याविरोधः । नाद्यः । नित्यानित्ययोर्विप्रतिषेधानुपप
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy