________________
४६५
३ पा. १ आ. शब्दकौस्तुमः । स्यात् । अनुसम्परिभ्यः। चकारादाङः। अनुक्रीडते । सङ्क्रीडते। परिक्रीडते । आक्रीडते । उपसर्गेण समा साहचर्यादनोः कर्मप्रवचनीयान । माणवकमनुक्रीडति । माणवकेन सहेत्यर्थः । तृतीयार्थइत्यनोः कर्मप्रवचनीयसंज्ञा । समो ऽकूजने ॥ सङ्कीडति शकटम् । मयास्य सङ्क्रीडति चकिचक्र इति श्रीहर्षः । कथं तर्हि क्रीडते नागराज इति । अपप्रयोग एवायामित्याहुः । आगमेः क्षमायाम् ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व ता. वत् । सहस्व कञ्चित्कालम् । मा त्वरिष्ठा इत्यर्थः । एतेन यावदागमयतेथ नरेन्द्रानिति श्रीहर्षप्रयोगो व्याख्यातः । यावत्पतीक्षते इत्यर्थात् । शिक्षेर्जिज्ञासायाम् ॥ धनुषि शिक्षते । शिक्ष विद्योपादानइत्यस्य नेह ग्रहणम् । अनुदात्तेत्त्वादेवे सिद्धत्वात् किन्तु शके सन्नन्तस्य । सनिमीमेतीस् । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । क्रियव हि शकरर्थ प्रति विषयतयैवान्वेति । भोक्क्तुं शक्नोतीत्यादिदर्शनात् । भोजनविषयकशक्तिमानिति हि तदर्थः । शकषज्ञाग्लाघटरभेति तुमुन् । इह तु ज्ञानं विषयः । ज्ञातुमिति तु न प्रयुज्यते अत्मनेपदेनैव ज्ञानविषयकताया गमितत्त्वात् । न चैवं जिज्ञासायामित्यसंगतम् । ज्ञानेच्छा हि तदर्थः । लक्ष्ये तु ज्ञानं शक्तो विषयः । शक्तिस्तु सनर्थभूतायामिच्छायामिति व्याख्यानात् । सत्यम् । ज्ञानविशिष्टायाः शक्तरिच्छाविषयतया ज्ञातस्यापि विषयतानपायात् । एतावानेव परम्भेदः । इच्छा सन्वाच्या शक्तिस्तु प्रकृत्यर्थः । तस्यास्तु ज्ञानविषयकत्वमात्मनेपदेन द्योत्यतइति । आशिषि नाथः ॥ अनुदात्तेत्त्वादेव सिद्ध नियमार्थ वार्तिकम्, अशिष्येवेति । न चैवमनुदात्तेत्त्वं व्यर्थमिति वाच्यम् । तस्य नाथनइति युजर्थत्वात् । सर्पिषो नाथते । आशिषि नाथ इति कर्मणि