SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४६४ शब्दकौस्तुभः । [ १ अ० धातुतया इयङि जिय इति वक्तव्यत्वात् । न च नियः क्रिय इति दीर्घे सावकाशमियडं परत्वाद् घेर्डितीति गुणो वा धतइति युक्तम् । स्वेष्वपि पूर्वविप्रतिषेधेनेयङ इष्टत्वात् । अव एव क्षिय इति निर्दिश्यते । किञ्च क्षियोदीर्घादिति सूत्रे दीर्घग्रहणमपीह ज्ञापकम् । अन्यथा क्षिय इति निर्देशादेव दी - र्वस्य निर्णये किं तेन । उच्यते । अनित्योयमतिदेशः । अतो नेय । अनित्यतायां प्रमाणन्तु ऋलुक्सूत्रएवोक्तम् । अविवक्षितार्थरूपमात्रानुकरणाद्वा । यन्तु पराजेरसोढ इति सूत्रे इयङः परवारिति गुण इति हरदतेनोक्तम् । तच्चिन्त्यम् । क्षियोदीघादित्येतत्सूत्रस्य भाष्यकै यटवृत्तिग्रन्थैस्तत्रत्यं हत्य स्वग्रन्थाभ्याञ्च सह विरोधात् ॥ • आङ दोनास्यविहरणे ॥ आङ्पूर्वाद्ददातेर्मुख विकसनादन्यत्रार्थे वर्त्तमानादात्मनेपदं स्यात् । विद्यामादत्ते । अनास्थावेहरणे किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । उपेयिवाननाश्वानित्यत्रापशब्दवत् । तेनेहापि न विपादिकां व्याददाति । पादस्फोटो विपादिका । नदीकूलं व्याददाति । पराङ्गकर्मकादनास्यइति निषेधो नेष्यते । तथा च वार्त्तिकम् । स्वाङ्गकर्मकाच्चेति । स्वमङ्गमिह स्वाङ्गं न त्वद्रवं मूर्त्तिमदिति परिभाषितम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम् । कथन्तर्हि व्यादत्ते विहगपतिर्मुखं स्वकीयम् । कर्त्रभिप्राये भविष्यति । अकर्त्रभिप्रायार्थो ह्ययमारम्भः । एतेन मुखं व्यादाय स्वपितीत्यत्र सुप्त्वा व्यादत्तइति व्यत्यासेन प्रयोग इति प्रेत्य भावपरीक्षायां वाचस्पतिग्रन्थोपि व्याख्यातः । आङो ङिद्विशिष्टस्य ग्रहणामेह, भिक्षामाददाति । अत्र स्मृतावाकार इति हरदत्तः ॥ क्रीडो सम्परिभ्यश्च ॥ क्रीड विहारे । अस्मादात्मनेपदं
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy