________________
२पा. १ प्रा. शब्दकौस्तुमः ।
हनः सिन् । हन्तेः परः सिन् कित्स्यात् । आहत । आहसाताम् । आहसत । सिचः किन्वादनुनासिकलोपः। यद्य. पिसिजन्तस्याङ्गस्यात्मनेपदं ङित्परमस्तीत्यनिदितामित्येव सि. दं तथापि सिजन्तस्योपधालोगो नेति ज्ञापनार्थमिदन्तेनामस्तेत्यादि सिद्धम् । न चानिदिनामिति पर्युदासः शक्यः । सिच इकारस्योच्चारणार्थत्वात् । अन्यथा नुमापत्तेः । न च धातुग्रहणेन तद्बुथदासः । धातुग्रहणमुपदेशे नुम्पवृत्त्यर्थमिति कुण्डा हुण्डत्यादिसिद्धये भाष्यएव वक्ष्यमाणत्वात् । न च तासेापत्तये तत् । तत्रापीकारस्योच्चारणार्थत्वात् । न चैत्र मन्ता हन्तेत्यादावात्मनेपदे उपधालोपापत्तिः । आभीयस्य तासेष्टिलोपस्यासिद्धत्वात् । आभात्सूत्रप्रत्याख्यानपक्षे तु विकरणप्रयुक्तमुपधात्वमाश्रित्य लोपो नेति सामान्यापेक्षं ज्ञापकमस्तु । अङ्गत्तपरिभाषया वा मन्ता हन्तति साध्यताम् । न न्वाहतेत्यत्रातो लोपं व्यावर्तयितुं समानाश्रयत्वप्रयुक्ता सिद्धतापेक्ष्यते , सा च सिचः किचं विना न निर्वहतीति कथं ज्ञापकतेति चेन्न । आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यानादेव लोपाप्रवृत्तेः । जयादित्यस्तु सिन्नास्योरिदित्करणमनुनासिकलोपप्रतिषेधार्थमित्याह । तन्मते धातुग्रहणस्य तद्व्यावृन्त्या कृतार्थत्वान्नुम्बिधावुपदोशवद्वचनं प्रत्ययसिद्धयर्थमिति व. चनमेव शरणीकरणीयमिति दिक् । यद्यपीह लिसिचावित्य. नुवृत्त्या सिद्धं तथाप्युत्तरार्थमवश्यकर्तव्यं सिन्ग्रहगं स्पष्टत्वार्थमिहैव कृतम् । अन्यथा हि लिङि वधादेशो नित्यः घानिषष्टिति चिण्वदिदि स्थानिवत्सूत्रोक्तरीत्या वधादेशाभावेपि अझलादित्वान्न कित्त्वमित्यादि व्युत्पादनीयं स्यात् ॥
यमो गन्धने ॥ सूचनाथायमेः सिच् कित्स्यात् । उदाय.