SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १ पा. २ आ. शब्दकौस्तुभः । " 1 ति लोपात् । न च तत्र पदान्तस्येति व्याख्यातुं युक्तं, जर्गृधेर्लङ् अजर्घाः पास्पर्डे र्लङ् अपास्पा इत्यादेरसिद्धिप्रसङ्गात् । न चाण्ग्रहणसामर्थ्यात्तद्वाधः । पूर्वेणापि ग्रहणे बाधेनैवोपपत्तेरिति दिक् । तस्माद्धातुग्रहणसामर्थ्यादण्ग्रहणसामर्थ्याद्वोरण् रपर इति पूर्वेण ग्रहणमिति स्थितम् । वस्तुतस्तु धातुग्रहणमेव ज्ञापकम् । अण्ग्रहणस्य लाकृतिरित्यादौ लपरताफलमित्यपि वक्तुं शक्यत्वात् । अणुदित्सवर्णस्य चाप्रत्यय इति तु परेणैव । उर्ऋदिति लिङ्गात् । तत्र हि कृतसंशब्दन इत्यस्माच्चुरादिण्यन्ताल्लुङि चङयचीकृतदित्यत्र ऋकारस्य दीर्घस्यापि स्थाने ह्रस्व एव यथा स्यादित्येवमर्थ तपरकमणं कृतं, ग्रहणकशास्त्रे पूर्वेण ग्रहणे तु दीर्घस्य ऋकारस्य न स्थानित्वं न वादेशवं प्रसक्तमिति व्यर्थ तपरत्वं स्यात् । ननु सत्यपि परेण ग्रहणे उर्ऋदित्यत्र वपरत्वं वृथैव । भाव्यमानेन सवर्णग्रहणाप्रसक्तेरिति चेन्न । वक्ष्यति हि तत्र वृत्तिकारः । न चायम्भाव्यमानोण् किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपेणाभ्यनुज्ञायतइति । कृते तु तपरत्वे तद्बलादेव दीर्घस्थाने भाव्यमानतापि लभ्यतइत्यन्यदेतत् । तस्माद् ग्रहणकशास्त्रेण परेणेति स्थितम् । तत्फलं तूरण् रपर इत्यत्र उरित्यनेन ऋकारस्य ग्रहणावृतइद्धातोरुदाष्ठयपूर्वस्येत्यादौ रपरत्वसिद्धिः । दूलोपे पूर्वस्य दीaण इत्यत्रापि हलामणामसम्भवादेचान्तु विशेषाभावादनर्थकमेवाण्ग्रहणं स्यात् । ततश्चाचश्चेत्येव सिद्धमित्यण्ग्रहणसामर्थ्यात्पूर्वेणाननु वृद्यमने अस्मात्तृचि ऊदित्वादिङभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रेफस्य दीर्घे स्थानसाम्यादृकारे ढलोपस्यासिद्धत्वादुपधायाश्चेतीत्वे पूर्ववद् गुणे वर्देति यथा स्यादिति परेण ग्रहणं स्यात् । एवं तर्हि तृतीयेति निर्देशालिङ्गात्पूर्वेणैव । परेण हि ग्रहणे हल
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy