SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [ १ अ श्रवणार्थमणग्रहणं स्यात् । नचेतदज्ग्रहणेन सिध्यति । हलोयमामिति लोपस्तु वैकल्पिकः । झयोहोन्यतरस्यामित्यतोन्यसरस्यांग्रहणानुवृत्तेः । अत्र च ज्ञापकं ग्रहणकशास्त्रे ऽण्ग्रहणम् । तद्धि सय्यन्ता सव्वत्सरः यल्लोकमित्यादौ परसवर्णस्य साननासिकस्य यग्रहणेन ग्रहणादनचिचेति द्वित्त्वे कृते पक्षे यवmiti त्रिकस्य श्रवणार्थे क्रियते । हलोयमामित्यस्य नित्यत्वे तु व्यर्थमेव तत्स्यात् । यद्यपि गुणानामभेदकत्वेनैव सानुनासिकयवलानां द्वित्वसिद्धेर्ग्रहणकशास्त्रे ऽज्ग्रहणमेवोचितं न त्वण्ग्रहणं, तथापि गुणा भेदका इत्यपि पक्षं ज्ञापयितुमण्ग्रहणम् । भेदकाभेदकपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाद्व्यवस्था । अत एव चतसर्यानुदात्तनिपातनमित्यादि सङ्गच्छते । अत एव चाटन आविभक्तावित्यादाविदमस्त्यदाद्यत्वे चानुनासिको नेति वक्ष्यामः । यत्त विकल्पानुवृत्तौ ज्ञापकान्तरवर्णनम् । अमुवर्त्तते विभाषा शरोचि यद्वारयत्ययं द्वित्वं, नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चित्स्यादिति । तत्तु भाष्ये दूषितम् । तथाहि । लोपस्य नित्यत्वे ऽचो रहाभ्यामिति द्वित्वेनारम्भसामयत्तद्वाधः । द्विविधा एव हि यरः यमो झरवेति । तत्र हलोयमामिति झरोझरीति च लोपे कृते द्वित्वं वृथा स्यात् । किंत तयोर्योगयोरुदाहरणमिति चेत् । यत्रान्तरेण द्वित्वं व्यञ्जनअयं लभ्यते । यथा ssदित्यो देवतास्य आदित्यः मत्तं अवत्तमिति । एवं स्थिते चतुष्वित्यत्रापि यदि द्वित्वं स्यात्तर्हि लोपो न स्यादेव । ततश्च सार्थकः शरोचीति निषेधः कथं विभाषानुतिं ज्ञापयेदित्यास्तां तावत् । सर्वथापि विकल्पानुवृत्तेः स्थितत्वात्पाक्षिकरेफद्वयश्रवणार्थमण्ग्रहणमस्त्विति । अत्रोच्यते । कर्त्रर्थमित्यादौ सत्यपि रपरत्वे रेफद्वयश्रवणं दुर्लभम् । रोरी ७८
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy