________________
१ पा. ९ आ. शब्दकौस्तुमः ३२९ व्यमेवेति । मैवम् । आगस्त्यकौण्डिन्ययोरित्यत्र यस्कादिभ्यो गोत्रइति गोत्रग्रहणमनुवर्त्य गोत्रे यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धेः । तस्मादत्र प्रत्ययग्रहणं मास्त्वति स्थितम् । स्यादेतत् । एवंसति लोपसंज्ञया सह लुगादिसंज्ञानां तुल्यव्यक्तिकत्वं स्यात् । तद्भावितस्य संज्ञति चेत् । अविशेपाल्लोपेपि तथा स्यात् । उच्यते । असजातविरोधित्वाल्लोपसंज्ञातावददर्शनमात्रस्य भवति । लुगादिसंज्ञासु परमनेकसंज्ञाप्रणयनसामोत्तद्भावितग्रहः । तेन संज्ञासङ्करो नेत्युक्तम् । सति तु सङ्करे हन्तीति शब्लुकि श्लाविति द्वित्वं स्यात् । जुहोतीत्यत्र श्लौ सति उतो वृद्धिलकि हलीति वृद्धिः स्यात् । न च तत्राभ्यस्तस्य नेत्यनुवृत्तर्योयोति नानोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यम् । संज्ञासंकरपक्षे तदनुवृत्त्यसम्भवात् । अन्यथा सूत्रस्य निर्विषयतापत्तेः । न च यौतिरोतीत्यादिरवकाशः । संज्ञासङ्करे तत्रापि द्वित्वस्य दुर्वारत्वात् । लोपसंज्ञा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम् । तेन पश्चेत्यादौ प्रत्ययलक्षणं सिध्यतीति दिक् । भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण पञ्चेत्यादि सिद्धम् । तथापि सुदृषद् ब्राह्मण इत्यत्र वक्ष्यमाणरीत्योत्तरपदायुदात्तत्वस्योपधादीर्घस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोवश्यं प्रवर्तनीयः । तथा च तत्र लुकः प्रत्ययसंज्ञाप्यादर्तव्येत्यवधेयम् ॥
प्रत्ययलोपे प्रत्ययलक्षणम् ॥ प्रत्यये लुप्तपि तदाश्रयं कार्य स्यात् । अविध्यर्थमिदमिति वार्तिकमतम् । तथाहि । अतृणेडित्यत्र तिपो हल्ङयादिलोपे कृते तृणह इमिति सूत्रेण विधीयमानो हलादिपित्सार्वधातुकनिमित्त इमागमोस्माद्वचना. द्भवति, स्थानिवत्सूत्रेण तु न सिध्यति, अल्विधित्वात् । नन्वेवं