SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३२८ शब्दकौस्तुमः । [ १ अ० 1 वति । तथा लवणाल्लुगित्यादावादेः परस्योतं न भवतीति । मैत्रम् । ज्ञापकादेव सर्वादेशत्वसिद्धेः । घोर्लोपोलेटि वेति हि लोपे कृते लुग्वादुहेतिलग्ग्रहणं ज्ञापयति, लगादयः सदेशा इति । अलोन्त्यस्य ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । न च वैपरत्यिापात्तः । असञ्जातविरोधित्वेन लोपे ऽलोन्त्यपरिभाषायाः प्रवृत्तेः । सामान्येन लुमद्विषयं ज्ञापकं न तु लुमात्रविषयमिति सर्व सिद्धम् । स्यादेतत् । आगस्त्यकौण्डिन्ययोरित्यत्र लुगणिनोरित्यतो लुग्ग्रहणमनुवर्त्तते न वा । आये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः इति वैषम्याद्यथासंख्याभावे एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोपि कुण्डिनाः स्युः । कुण्डिनाश्चागस्तयस्स्युः । लुक्च क्रियमाणो ज्ञापकात्सर्वादेश इति उभयत्रापि विभक्तिमात्रं भूयेत । अथ निवृत्तं ततोऽगस्तयः कुण्डि ना इत्यत्र न कश्चिद्दोषः । किं तु अगस्तीनां छात्रा आगस्तीया इत्यत्र प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षितेप्यगस्त्यादेशस्य निषेधाभावादनिवृत्ताववृद्धत्वाच्छो न स्यात् । प्रत्ययग्रहणे सति तु लुग्ग्रहणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्भवति । अवशिष्टभागयोर्यथासंख्यमगस्तिकुण्डिनचौ । तेनागस्तयः । कुण्डिना इति सिद्धम् । प्राग्दीव्यतीये विवक्षिते तु गोत्रे लगचीति लुकि प्रतिषिद्धे तत्सभियोगशिष्टत्वादगस्त्यादेशेपि निवृत्ते आगस्त्यशब्दाद्रद्वाच्छे कृते सूर्यतिष्येति यलोपे चागस्तीया इति सिद्धयति । कौण्डि - न्ये तु नास्ति विशेषः । निवृत्तेपि कुण्डिनजादेशे कौण्डिन्यशदादपि कण्वादिभ्यो गोत्रइत्यणि कृते आपत्यस्येति यलोपे कौण्डिना इत्येव भवितव्यम् । तस्मादागस्त्य कौण्डिन्ययोरित्यश्रावश्यमनुवर्त्य लुम्ग्रहणम् । ततश्चेह प्रत्ययग्रहणमपि कर्त्त - - ·
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy