________________
३ पा. १ आ.
शब्द कौ स्तुमः ।
४५३
इटोत् इत्यत्रायं निषेधो न भवति अनित्यत्वादस्य विधेरिति । तत्स्वोक्तिविरुद्धम् । इटोदिति सूत्रे तकार उच्चारणार्थ इति तेनैवोक्तत्वात् । तस्मादभ्युपेत्यवादमात्रम् । यद्वा । इटोदित्यत्रास्य अकारमात्रस्य विधेः । अनित्यत्वादिति तु किमोदित्येतत्परमिति व्याख्येयम् ।।
आदिवः ॥ उपदेशे आदिभूताः बिटु डु एते इतः स्युः । ञिइन्धी । इद्धः । टुवेपृ । वेपथुः । डुवप् । उप्त्रिमम् । उपदेशइति किम् । ञिकारीयति । आदिः किम् । पटूयति । अस्ति हि पृथ्वादिषु पटुशब्दस्योपदेशः | अत्रेत्संज्ञायां सत्यामथुच् स्यात् । अवयवे ह्यचरितार्थं द्वित्वं समुदायस्य विशेषकं स्यात् ॥
षः प्रत्ययस्य ॥ प्रत्ययस्यादिः ष इत्स्यात् । शिल्पिनि ष्वनू, नर्त्तकी । प्रत्ययस्येति किम् । षोडश । षषत्वमित्यत्रोपदेशस्थोयं षकारः । आदिः किम् | अविषः । महिषः । अविमहिभ्यां टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः । ङीषोपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्वात् । सत्यम् । विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ॥ चूट् । प्रत्ययाद्यौ चुटू इतौ स्तः । गोत्रे कुञ्जाहिभ्यश्च्फञ् । कौजायन्यः । छस्य ईयादेशं वक्ष्यति । जस् । ब्राह्मणाः । झस्यान्तादेशो वक्ष्यति । सोस्याभिजन इत्यधिकारे शण्डिकादिभ्यो ञ्यः । शाण्डिक्यः । चरेष्टः । कुरुचरी । ठस्येकादेशं वक्ष्यति । सप्तम्यां जनेर्डः । उपसरजः । ठस्यैकादेशं वक्ष्यति |धनगणंलब्धेत्यतो लब्धेत्यनुवर्तमाने, अन्नाण्णः । अन्नं लब्धा आन्नः। चुटुषाः प्रत्ययस्येति कर्त्तव्ये योगविभागादनित्यमिदम् । तेन केशचुञ्चुः केशचण इत्यत्र