________________
४५२
शब्दकौस्तुभः ।
[१ भ० निश्चयम । न च लितीति ज्ञापकम । ल्युडादौ चरितार्थत्वात् । तस्मादुक्तमकारचतुष्टयमेव शरणम् । स्यादेतत् । आधे हल्संज्ञातः पूर्व कथं संयोगान्तलोपः । संयोगसंज्ञाया अनिष्पतेः। द्वितीये हस्य ल् इति कथं समासः । सुप्संज्ञाया था. निष्पादात् । एवं तृतीये हलोन्त्यमिति तत्पुरुषः कथम् । चतुर्थे च लूदित इति बहुव्रीहिः कथम् । उच्यते । साधुत्वज्ञानोपयोगिनः शास्त्रस्याप्यर्थबोधो यदि तद्वोध्यसाधुत्वानां पदानां स्वार्थानुभावकतायामुपयुज्येत तदैष दोषः स्यात् । स च नोपयुज्यते । प्रमाणाभावात् । शतशो व्यभिचाराच । यथा चैतचथा अइउणित्यत्रैव प्रतिपादितम् ॥
न विभक्तौ तुस्माः ॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । रामान् । पचेरन् । ब्राह्मणाः । पचतः । रामम् । अद्राक्षम् । विभक्तौ किस् । अचो यत्, ऊर्णाया युस्, रुधादिभ्यः नम्, प्राग्दिशीविभक्तिरिति यत्र विभक्तिसंज्ञा तत्रायं निषेधोन भवति।इदमस्थमुरिति मकारपरित्राणार्थमुकारानुबन्धासञ्जनाज्ज्ञापकात् । लेन किमोत्, क्व इति सिद्धम् । स्यादेतत् । तदानीमित्यादौ दानीमोपि तर्हि मिस्त्वं स्यादिति चेत्रायान्तत्त्वात्तस्य । यकारोह्यत्यत्वमनुभवन्मकारस्येत्संज्ञा प्रतिबन्धाति । संयोगान्तस्य लोपः इति यलोपस्येत्संज्ञा प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावाव । यद्वा । इदमस्थमुरित्यनेनानित्यत्वमात्रं ज्ञाप्यते । न तुं प्राग्दिशीयेष्वप्रवृत्तिः। औत्, इटोदित्यत्र तु सुखमुखार्थस्तकारः। न त्वित्संज्ञकः । तित्स्वराफ्तेः । न चेष्टापत्तिः । उरोवाये । भक्षीयतवराधारा इत्यादौ उरौभक्षीयेत्यनयोरन्तोदान्ततादर्शनात् । आधुदात्तश्चेति सूत्रे भविषीयेत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्य सिद्धान्तितत्वाच्च । यत्त्विह वृत्तिकृतोक्तम्, किमोत,