________________
शब्दकौस्तुमः ।
[ १ अ०
चकारस्येत्संज्ञा न । सत्यां हि तस्यां चित इत्यन्तोदात्तः स्यात् । चित्करणं तु पर्यायार्थं स्यात् । अवात्कुटारच्चेत्यतो Sवादित्यनुवर्त्तमाने नतेनासिकाया इति टीटच् । अवटीटः । यद्वा । चञ्चुप्चणप्टीटचोयादयः । लोपोन्योरिति यलोप इति व्याख्येयम् ॥
1
1
लशकतद्धिते ।। तद्धितभिन्ने प्रत्यये आदिभूता लशकवर्गा इतः स्युः । ल्युट् च । भवनम् । कर्त्तरि शप् । भवति । क्तक्तवतू निष्ठा । भूतः भूतवान् । प्रियवशेवदः खच् । प्रियंवदः । वशंवदः । ग्लाजिस्थश्वग्स्नुः । जिष्णुः । भञ्जभासमिदो घुरच् । भगुरम् । ङे । हरये । अतद्धिते किम् । चूडालः । प्राणिस्थादातो लजन्यतरस्याम् । लोमशः । अत्र प्रयोजनाभावान्नेत्संज्ञेत्यपि सुवचम् | कर्णिका । कर्णललाटात्कनलङ्कारइति भवार्थे कन् । अत्र कितिचेति वृद्धिः स्यात् रूपञ्च न सिध्येत् । इर उपसङ्ख्यानं, रुणद्धि । अयं वा रेफो हलन्त्यमितीत्संज्ञः । इकारस्तूपदेशेजनुनासिक इति । स्यादेतत् । एवं सतीदित्त्वान्नुम् स्यात् । न च तक्रकुम्भीधान्यन्याय आश्रयितुं शक्यः नन्दतीत्याद्यव्याप्तेः । सत्यम् । स्कन्दिरप्रभृतीनां नकारपाठों ज्ञापकः अन्तेदितामेव नुमिति । यद्वा । गोः पादान्तइति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते । तच्चावश्यमनुवर्त्यम् । चक्षिङो नुम्मा भूदिति । अथवा न दृश इति ज्ञापकान्न भविष्यति सति हि नुमि इगुपधत्वाभावादेव क्सस्याप्राप्तेः किं तन्निषेधेन । यद्वा । इरितोवेति ज्ञापकात्समुदायस्येत्संज्ञा । अवयवे अचरितार्थस्य स्वरितत्वस्य समुदायविशेषकत्वात्स्वरितत्वप्रयुक्तमात्मनेपदम् । तेन रुन्ध इत्यादि सिद्धम् ||
तस्य लोपः ।। तस्येतो लोपः स्यात् । तस्यग्रहणं सर्व लोपार्थम् ।
४५४