SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुमः । ४५५ * बिटुडूनामलोन्त्यस्य मा भूत् । नानर्थकेलोन्त्यविधिरिति तु नास्ति । अलोन्त्यात्पूर्व उपधेति सूत्रे तस्य प्रत्याख्यानात् ॥ __ यथासङ्ख्यमनुदेशः समानाम् ॥ समसङ्ख्यानां सम्बन्धो यथाक्रमं स्यात् । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । न. न्दनः । ग्राही । पचः । समूलाकृतजीवेषु हन्कृञ्ग्रहः । समूलघातं हन्तीत्यादि । अत्रानुवाद्ययोरापिधातूपपदयोर्यथाक्रमं बोध्यम् । स्यादेतत् । विदिभिदिछिदेः कुरजित्यादौ तच्छीलाद्ययंत्रयेण यथासङ्ख्यं प्राप्नोति । एवं ख्यत्यान्ङसिङसोरित्यादावपीति चेत् । अत्र भाष्यम् । स्वरितेनेत्याकृष्यते । तेन स्वरितत्वाभावान्नेह यथासङ्ख्यमिति । प्रतिज्ञास्वरिताः पाणिनीयाः । स्वरितत्वाभावादेव कर्तृकर्मणोश्वभूकमोरित सूत्रे न यथासंख्यं नाडीमुष्ट्योश्चेति सूत्रे यथासंख्यं च भवत्येवोति भाष्यम् । वृत्तिकारस्तु कर्तृकर्मणोश्च नाडीमुष्ट्याश्चेति सूत्रद्वयेपि भाष्यं विपरीतं वदन्नुपेक्ष्यः । नाडीमुष्ट्योश्चोत सूत्रे यथासङ्ख्याभावपरं भाष्यमपि पूर्वापरविरोधाचिन्त्यम् । एतदेव वा मतान्तरपरं सत्तत्रत्यवृत्तरालम्बनमस्तु । कर्तृकर्मणोरित्यत्र तु वृत्तिश्चिन्त्यैव । वेशोयशआदेभंगायल्खावित्यत्राप्यस्वरितत्वादेव न यथासङ्ख्यम् । इह सूत्रे भाष्ये वृत्तौ चेत्थं स्थितम् । चतुर्थे तु वृत्तिकारो योगं व्यभजत् । भगाद्यलिति खचेति च ॥ स्वरितेनाधिकारः ॥ इत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः स्वरितत्वयुक्तशब्दस्वरूपमधिकृतं बोध्यम् । प्रत्ययः परश्चेत्यादि । यथा प्रायेणोत्तरत्रोपस्थितिः। क चित्तु पूर्वस्थत्रापि । तदुक्तम् । अतिङित्युभयोर्योगायोः शेष इति । कियहूरमधिकार इत्यत्र व्याख्यानं शरणम् ।यथा आवृतीयाध्यायान्तं धात्वधि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy