________________
शब्दकौस्तुभः ।
[ १ अ० ष्टी तदन्तेन समासः । न च कर्म्मणिचेति सूत्रेण समासनिषेधः शङ्कयः । तंत्र चशब्दार्थतया कर्म्मणीति शब्दवता उभयप्राप्तावितिसूत्रेण या षष्ठी तदन्तं न समस्यतइत्यर्थात् । इयं तु कर्तृकर्मणोरिति विहिता षष्ठी न तूभयप्राप्ताविति । आचार्यस्य कर्त्तर्वस्तुतः सत्वेपीहानुपादानात् । चित्रं गवां दोहो ऽगोपेनेत्यत्र हि आश्चर्य प्रतिपाद्यं तच्च यद्यशिक्षितो दो
दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा, अतः कर्तृकर्मणोर्विशिष्योपादानादस्त्युभयप्राप्तिः । इह तु शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तिपरं वाक्यं न तु कर्त्तविशेषानद्यात्तपरमतो नास्त्युभयप्राप्तिः । अस्तु वा यथाकथंचिदुभयप्राप्तिः तथापि न क्षतिः । उभयप्राप्तावितिसूत्रे अविशेषेण विभाषेति पक्षस्यापि वक्ष्यमाणतया नियमाप्रवृत्तिपक्षे आचार्यस्य शब्दानुशासनमिति प्रयोगसंभवात्, शेषलक्षणा षष्ठी वास्तु । तस्माद्वैदिका लौकिकाश्च साधवः शब्दा इह विषय इति स्थितम् । वेदे भवा वैदिका अध्यात्मादित्वाट्ठञ् । एवं लोके भवा लौकिकाः । यद्वा लोके विदिता लौकिकाः तत्र विदित इति वर्त्तमाने लोकसर्वलोकाछन् । प्रातिशाख्येविवं न वैदिकैकदेशमात्रमिह विषयः । न वा व्याकरणान्तरेष्विव छांदसपरित्याग इति सूत्रयितुमुभयोपादानम् ॥ ॥ इति विषयनिरूपणम् ॥
स्यादेतत्, गौरित्यादिः शब्द इह विषयः । तत्र च गare aard विसर्गश्च घटकः । व्युत्पाद्यते तु डौप्रत्यय सुप्रत्ययर्वादेशादिकम्, न चैतद्गौरिति बोधे भासते तथा चार्थान्तरता । गौरित्यनेन परिनिष्ठितेन सह डोमभृतीनां सम्बन्धविशेपस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनमिति चेन्न ।