________________
१ पा. १ आ. शब्दकौस्तुभः । शब्दान्तरव्यावृत्तस्य सम्बन्धस्य उपयोगस्य च दुर्वचत्वात् । द्रव्यगुणादिपदार्थानामिह व्युत्पाद्यतापत्तेश्च । अस्ति हि तेषां गौरित्यनेन वाच्यवाचकभावादिः सम्बन्धः । अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्तयाख्यसम्बन्धेन शब्दो विशेषणतया भासते । चाक्षुषबोधेपि व्यक्तथा स्मारितः शब्दो विशेषणमित्यभ्युपगमः । आह च, न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थितइति॥यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्डएव हि दृष्टः सन् संज्ञा स्मारयितुं क्षम, इति च ॥ युक्तं चैतत् । गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थन शब्दस्यापि स्मरणे बाधकाभावात् । अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणत्वाविशेषात्संसर्गोपि तादात्म्यमेवास्तु । एवं गोमुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयनाथ गौरित्यत्र का शब्द इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभेदो भाष्यकृद्भिराशङ्कय निराकृतः । तत्र निराकरणग्रन्थस्यायमाशयः । समसत्ताकभेदाभेदी विरुद्धावेव । अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्तिव्यवस्था न स्यात्, न स्थाच्च भेदग्रहाद्ममनिवृत्तिः । जातिव्यक्तयादिसम्बन्धस्त्वतिरिक्त एवेति । एवमेव शब्देनापि सहास्त्येव सम्बन्धो द्रव्यादीनामिति स्थितम् । आस्ति च द्रव्यादिव्युत्पादनस्य प्रकृते उपयोगोपि । अस्मिबर्थे ऽयं साधुरित्यर्थविशेष पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात् । अत एव वाजिनि दरिद्रे च क्रमेण अश्वशब्दो अस्वशब्दश्च साधुव्युक्रमेण त्वसाधुरिति सिद्धान्तः । ननु यथा वैशे