________________
१ पा. १ आ. शब्दकौस्तुभः । त्तरपदार्थादिप्राधान्यमित्यादिसिद्धान्ता भज्येरनिति चेन । पूर्वपदद्योत्यं प्रति प्राधान्यमिति तदर्थात् । द्योत्यार्थेनाप्यर्थवत्तेति प्रातिपदिकत्वसिद्धिः। अत एव येषां द्योत्योप्यर्थो नास्ति तु हि च स्म ह वै पादपूरणे इत्यमरकोशात् कमीमिद्विति पादपूरणार्था इति निरुक्ताच्च । तदर्थ निपातस्यानर्थकस्योति वार्तिकारम्भ इत्यवधेयम् । स्फुटश्चेदकैयटादिग्रन्थेषु । अत एवाकृत्यधिकरणे भट्टैरुक्तम् । चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्ते!पसर्गनिपातयोः ॥ तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थयोतको तौ तु वाचकस्स विचार्यतइति ॥ यत्तु अर्थवत्सूत्रे अधीतइत्यादी धातोरनर्थकता उपसर्गविशिष्टस्य वाचकतेति कैश्चिदुक्तं तदभ्युच्चयमानम् । सर्वस्यद्वे इतिसूत्रे कैयटादिग्रन्थोप्येवमेव । पूर्वोत्तरमीमांसयोस्तत्रतत्र नः पर्युदासे लक्षणोत ग्रन्था अप्येवमेव, उक्तयुक्तः । अस्तु वा मतान्तरं निपाता वाचका इति सर्वथापि प्रादयो द्योतकाश्चादयस्तु, वाचका इत्यवरूप. मर्द्धजरतीयं नैयायिकाभ्युपगतमप्रामाणिकमेवेति दिक् । अनुपूर्वकः शासिर्विविच्य ज्ञापने दृष्टः । तद्यथा । अक्षेत्रवित् क्षेत्रविदं ह्यमाद् स प्रति क्षेत्रविदानुशिष्टः । यथा वा । “संपूषविदुषानययोअञ्जसानुशासति । य एवेदमिति. ब्रवत् " । अत्र हि गुणत्रयोपेतेन सद् गुरुणास्मान् शिक्षयेति पूषा प्रार्थ्यते तत्र अञ्जसेति शैन्यमुक्तम् । अनुशासतीति विविच्य बोधकत्वं बहुलञ्छन्दसीति शपो न लुम् । इदमित्यमेवेति यो ब्रूयादिति प्रमेयनिष्कर्ष उक्तः ब्रवदित्यत्र लेटोडाटावित्यत् । तथा च अनुशिष्यन्ते विविच्य असाधुभ्यो विभज्य बोध्यन्ते येनेति करणे ल्युट् । ततश्शब्दानामिति कर्मणि -