________________
शब्दकौस्तुभः ।
[१ अ० दौ धातोः सकर्मकक्रियापरत्वं विना कर्माण लकारायोगेन वाचकत्वे स्थिते उपसर्गाणां द्योतकत्वस्यैव युक्तत्वात् । ननूक्तयुक्तथा ऽस्तूपसर्गाणां द्योतकता निपातान्तरं तु वाचकमेवेति चेन्न । साक्षाक्रियते अलंक्रियते ऊरीक्रियतइत्यादौ कर्मणि लकारेण कर्मीभूतस्य गुर्वादेराभिधानसिद्धये धात्वर्थ प्रति कर्मत्वस्य वाच्यत्वात् । उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तदवच्छेदेनैव द्योतकताकल्पनाच्च । सामान्ये प्रमाणानां पक्षपातात् । निपातत्वं चाखण्डोपाधिरूपं जातिरूपं शब्दस्वरूपमेव चेति पक्षत्रयपि प्रादिचादिसाधारणमेव । प्रत्वादिप्रत्येकपर्यवसनं तदिति पक्षेपि प्रादीनां चादिभ्यो वैलक्षण्यानिरुक्तेः केवलानामप्रयोगेण अन्यलभ्यतापि तुल्यैव । विजयतइत्यत्र धातर्विशिष्टजयइव घटश्चत्यत्र समुच्चितघटे घटशब्दस्यापि लक्षणायाः संभवात् । किं च चादीनां वाचकत्वे समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इति व्युत्पत्तिनिपातेतरविषयकतया विना प्रमाणं संकोचनीया स्यात् । स्याच्च समुच्चयादिशब्दयोगइव चादियोगपि घटादेः षष्ठी । किं च समुच्चयादिपदैरुपस्थिते यथा विशेषणसम्बन्धस्तथा चादिभिरुपस्थिते स्यात् । द्योतकत्वपक्षे तु पदार्थैकदेशलान्न नत्र विशेषणान्वयः। अपि च शरैरुपैरिवोदीच्यानुद्धरिष्यन् रसानिघेत्यादौ उस्रसदृशैः शरैः रससदृशानुदीच्यानुदरिष्यनित्यादिरर्थः । स च उस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च तात्पर्यग्राहकत्वे सत्येव लभ्यते । अन्यथा प्रत्ययानां प्रकृत्य
न्वितस्वार्थबोधजनकतापि भज्येत । इवशब्दात्तु तृतीया दुर्लभा । असत्वार्थकतया कारकविभक्तययोगात् । एवमप्यु. स्रादिभ्यस्तृतीयाऽनन्वयस्यानुदाराच्च । नन्वेवं नञ्तत्पुरुषस्यो