________________
१ पा. २ आ.
शब्दकौस्तुभः ।
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमपादे प्रथममान्हिकं समाप्तम् ।। १ ।। अइउण् । संज्ञासूत्रमिदम् । आदिरन्त्येन सहतेत्यनेन सहैकवाक्यत्वात् । अइउणित्येषामादिरकारः अन्त्येन णकारादिना सहितः सन् आद्यन्ताभ्यामाक्षिप्तानां मध्यगानां स्वस्य च संज्ञेति हि वाक्यार्थः । अत्र अकारादीनां स्वरूपेण अनुकार्येण वा सतोप्यर्थवत्वस्याविवक्षितत्वात्मातिपदिकत्वं नेति गवित्ययमाहेत्यादाविव विभक्तेरनुत्पत्तिः सुपां सुलुगिति लुग्वा । छन्दोवत्सूत्राणीति भाष्यकारेष्ट्या छन्दोगेषु व्याकरणसूत्रेष्वपि छान्दसकार्यातिदेशात् । यूस्त्र्याख्यावितिसूत्रे छन्दः प्रदेशेषु गौणमुख्यन्यायो न प्रवर्त्तते इति वक्ष्यमाणत्वाद्वा । स्यादेतत् । स्वरसन्धिनेह भाव्यम् । तत्र अ इत्यत्र विभक्तेः रुत्वयत्वलोपेषु वृक्षइहेत्यादाविव लोपासिद्धया सन्धिर्नेति समाधानेपि इकारस्य इकोसवर्णइति ऋकारस्य ऋत्यक इतिप्रकृतिभावसम्भवेपि एदै - तोरयायौ दुर्वारौ । यत्तु वर्णोपदेशकाले अजादिसंज्ञानामानेष्पादात्सन्धिर्नेति । तश्चिन्त्यम् । वर्णोपदेशे इत्संज्ञायामच्मत्याहारे च तिष्पन्ने प्रवर्त्तमानानां यणादीनां सुध्युपास्यइत्यादौ तटस्थइव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात् । अन्यथा तुल्यास्यप्रयत्नमित्यादौ सवर्णदीर्घो न स्यात् । तथार्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं प्रत्ययः परश्चेत्यादौ सुप्रत्ययो ङयाप्प्रातिपदिकात् द्व्येकयोर्द्विवचनैकवचने बहुषु बहुवचनमित्यादौ तत्तद्विभक्तिः ससजुषोरित्यत रुः खरवसानयोरितिसूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् । स्वाध्यायोध्येतव्य इत्यस्य नेह नानेत्यादिश्रुतेश्च स्वस्मिअपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चे, तुल्यं यणादाव
३९