________________
शब्दकौस्तुभः । [१ अ. पि । नन्वेवं ग्रहणकशास्त्रमपि अणोप्रगृह्यस्येत्यादौ तटस्थइव स्वस्मिन्नपि प्रवर्तेत । ततश्च दीर्घाणामनण्त्वेन सवर्णग्राहकत्वं नास्तीतिसिद्धान्तोपि भज्यतेति चेन्न । वैषम्यात् । पदार्थसंसर्गो हि वाक्यार्थः । तद्बोधश्च पदार्थबोधोत्तरभावी। तथा च अण्शब्देन ये उपस्थितास्तेषां सवर्णग्राहकत्वं सूत्रार्थः। अणशब्दश्च आदिरन्त्येनेतिसूत्रेण अक्षरसमाम्नायपठितेषु संकेतितइति तानेवात्रोपस्थापयति । तथा च अष्टादशानामपि अकारः संज्ञेति पर्यवसम्ने सूत्रांतरेष्वस्य च्चावित्यादिषु अकारोष्टादशानामुपस्थापक इत्युचितम् । नतु ग्रहणकसूत्रपि । एतद्वाक्यार्थबोधात्मागष्टादशस्वगृहीतशक्तिकत्वात् । नहि सिचि वृद्धिरित्यादावादैचामुपस्थापकोपि वृद्धिशब्दो वृद्धिरादजितिसंज्ञासूत्रे तानुपस्थापयति । किन्तु स्वरूपमेव । संज्ञासूत्रे च सामानाधिकरण्यादादैचां वृद्धिशब्दवाच्यत्वावधारणे सू. त्रान्तरेषु संज्ञिनामुपस्थितिनिधेिति दिक् । तस्मादइरणित्यादौ स्वरसंधिः प्रामोत्येवोत चेत् । सत्यम् । संहिताविरहान यणादयः । अनित्या हि वाक्ये संहिता । उक्तञ्च । संहितेकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षत इति । समासस्य पृथग्रहणं गोवलीवईन्यायेन । एकपदइत्यनेनैव तत्सङ्ग्रहसिद्धेः । इयं च प्राचां परिभाषा एकदेशानुमतिद्वारा संहिताधिकारेणैव ज्ञापिता । अ. संहितायां यणादिनिवृत्यर्थो हि संहिताधिकारः । अत एव । हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृहं प्रविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एष इत्यत्र धन्या एनमित्यस्य नासाधुता । अत एव आलङ्कारिकै च्युतसंस्कृतित्वापेक्षया पृथगे