________________
३८
शब्दकौस्तुभः ।
[१ अ० एवमायन्तौ टकितावित्यत्र आयन्तौ कलध्माताविति । इडाघागमाश्च निरनुबन्धाः कलाः पाठ्याः । आनुगादयो ध्माताः । डुकृत्रित्यस्य स्थाने क इति द्विदोष पाठ्यम् । आदिरन्त्येनेत्यत्रापि आदिकलौ सहेत्युक्त्वा अउइत्यादिकाः संज्ञाः करिष्यन्ते । कलेनेति तृतीयानिर्देशे सति तु अप्राधान्यात्सिद्धान्तइव चरमवर्णस्य संज्ञा न स्यात् । दूलोपइत्यादौ अणइत्यपनीय अ. ओरिति करिष्यते । स्वरसन्धिस्त्वसन्देहाय न करिष्यते । तस्मात्सर्वमनुबन्धकार्यादिकङ्कलादिभिरेव सिध्यतीति चेत् । सत्यम् । सिध्यत्येवम् । अपाणिनीयं तु भवतीति चेत् । अत्रोच्यते । इष्टसिद्धयर्थो वर्णोपदेशः । एवं चाकृत्युपदेशादेव उदा. त्तादिसिद्धिमङ्गीकृत्य कलादिष्वतिप्रसङ्ग इत्थं परिहार्यः । आगमाश्च विकाराश्च प्रत्ययाः सह धानुभिः । उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादय इति । यत्तु अग्रहणेषु प्रातिपदिकेषु प्राप्ता एवेति । तन्न । त्वयापि प्रतिपदपाठस्यावश्याश्रयणीयत्वात् । अन्यथा शशइत्यत्र षषइत्यपि स्यात् । मञ्चके मञ्जक इति । पलाशे पलाष इति स्यादेतत्। स्वरवर्णानुपूर्वीनिर्णयाय यदि पतिपदपाठस्तर्हि कलादिनिवृत्तिरपि तत एवास्तु । उणादिसूत्रात्पूपोदरादिसूत्राद्वा साधुत्वाभ्यनुज्ञानं विशेषावधारणं तु निघण्ट्वादिनेति चे,त्कलादिनिवृत्तिरपि शिक्षादिग्रन्थेनास्तु । सत्यम् । आनुषङ्गिकी कलादिनिवृत्तिः । वर्णोपदेशस्य मुख्यं फलं तु प्रत्याहारनिष्पत्तिः । प्रत्याहारशब्दस्तु अणादिसंज्ञापरः । प्रत्याहियन्ते वर्णा एष्विति व्युत्पत्तेः। न च ग्रहणक शास्त्रेण निष्पादितासु अकारादिसंज्ञास्वतिप्रसक्तिः । योगरूढ्यभ्युपगमात् । तस्मादादिरन्त्येनेत्यतत्सूत्रसिद्धाः संज्ञाः प्रत्याहारशब्दवाच्यास्तनिष्पत्तये च वर्णोपदेश इति स्थितम् ।