SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १ पा. ७ आ. शब्दकौस्तुमः । २४३ कृते नकार उपधात्वाल्लुप्यतामिति चेत् । न । नलोपं प्रति स्कोरितिलोपस्यासिद्धत्वात् । बहूनां समवाये समुदायस्यैव संयो. गसंज्ञति पक्षे सलोपस्यामाप्तेश्च । तथा च मक्ता मङ्क्तव्यमित्याद्यपि प्रयोजनं बोध्यम् । भर्जिमोश्च । अन्त्यात्पूर्वो मित् इत्यनुवर्तते । भृजी भर्जने । अस्मादौणादिके अचि कुते ऊमागमः । भरूजा । मर्च शब्दार्थे । चुरादिकः । अस्मादच इरित्यौणादिक इप्रत्यय ईमागमः । निपातनात्सिद्धम् । भरूजाशब्दो ह्यङ्गुल्यादिषु पठ्यते मरीचिशब्दो बाव्हादिषु । उणादिषु तु मृकणिभ्यामीचिरिति ईचिप्रत्ययं कृत्वा मरीचिशब्दो व्युत्पादितः । तदुपायान्तरं बोध्यम् ॥ एच इग्घूस्वादेशे ॥ आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेव स्यात् । हेशब्दमतिक्रान्तं कुलमतिहि कुलम् । चित्रगुः । अतिरिः। अतिनु । यदत्र वक्तव्यं तदेओङ्सूत्रएवोक्तम् ॥ षष्ठी स्थानेयोगा ॥ अनेकसम्बन्धपरतया सम्भाव्यमाना षष्ठी स्थानप्रयुक्तसम्बन्धपति बोध्यम् । अस्तभूः । अस्तेः समीपो ऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थः । स्थानं च प्रसङ्गदर्भाणां स्थाने शरैः प्रस्तरितव्यमितिवत् । तथा चेगुच्चारणे प्रसक्ते यणुचारणीय इत्याअर्थपर्यवसाने सामीप्यादयः सम्बन्धा अर्थाद्वयावृत्ताः । योगः सम्बन्धः । स बहुविधोस्त्यस्य। इति योगा । अर्शआदित्वान्मत्वर्थीयोच । स च भून्नि । अन्यथा विशेषणवयापत्तेः । तेनानेकसम्बन्धपरतया सम्भाव्यमानत्यर्थो लभ्यते । अयोगति वा छेदः । अनिश्चितयोगविशेषेत्यर्थः । योगेत्ययोगेति वा किम् । अदुपधाया गोहः । शास इद व्हलोरित्यादौ शास इत्यत्र मा भूत् । सति हि तत्रापि स्थानेयोगत्वे गोहिशासोः स्थाने धातुमा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy