SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुभः ।। च सति वृद्धरसम्भवात् । अत एव वृत्तिकारादयोप्यत्र सूत्रे ऽच्प्रत्ययान्तान्येव लोलुवादीन्युदाजन्हुः । भिदिमृज्योस्तु याद य लुक् तर्हि तस्यानैमित्तिकत्वाद् गुणवृद्धी स्त एव । बेभेदिता मरीमार्जितेति यथा । यदि तु यस्य हल इत्यवयवलोपस्तर्हि स्थानिवद्भावादेव गुणाद्यप्रसङ्ग इत्युभयथापि नैतत्सूत्रोदाहरणत्वमित्यवधेयम् । भाष्यकारस्तु यस्योत लोपइवाचिलुक्यपि पृथगल्लोपमाश्रित्यैतत्सूत्रं प्रत्याचख्यौ । न च येन नामाप्ति न्यायेनाचि यङो लुगतोलोपं बाधेतेति वाच्यम् । यस्य हल इत्यत्र यस्येति योगं विभज्यातो लोप इति चानुवर्त्य यशब्दस्यातो लोपविधानेन लुग्वाधनात् । अवशिष्टं व्यञ्जनमात्रं लु. कोवकाशः । ततश्वाल्लोपस्य स्थानियवादेव बेभिदिता मरीमृजिता पापचक इत्यादिवल्लोलुवादयोपि सिध्यन्तीति किं सूत्रे. ण न चैवं नोनावेत्यादावपि पृथगल्लोपापत्तिः । चकारानुकृष्टवहुलग्रहणाज्जायमानस्यानौमत्तिकस्य लुकोन्तरङ्गतया लकारोत्पत्तेः प्रागेव समुदाये प्रवृत्तेः । नन्वेवं चेक्रियः लोलुवः तोष्टुव इत्यादावल्लोपस्य स्थानिवत्त्वाद्यथा गुणो न, एवमियडुवङावपि न स्यातामिति चेत् । सत्यम् । अचमाश्रित्य न भवत एव । उक्तयुक्तेः । किन्तु स्थानिवद्भावलब्धमकारमाश्रित्य भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । स्यादेतत् । लोलुवादिष्वकारे लुप्ते यलुगिति क्रमः । तत्र यकारावस्थानकाले अकारेण प्रत्ययत्वं न लब्धमेव । लुप्तेपि तस्मिन्नकारो नास्त्येव । ततः प्रागेव लोपात् । सोयमसत्कथं प्रत्ययतां लभेत । तल्लोपस्य स्थानिवद्भावेन प्रत्ययत्वमिति चेत् । स्थानिनि दृष्टं हि कार्य तद्वदतिदेशेन लभ्यते । न तु तत्रादृष्टमापि । अत्राहुः । तत्र सम्भावितमात्रमतिदिश्यते । यादि हि लोपस्य स्थानिभूतो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy