________________
१२४ ___ शब्दकौस्तुभः। [१ अ० एव हि विधिनिषेधयोक्यिार्थगोचरतेत्याभियुक्ताः। तस्माल्लालुवः पोपुवो मरीमृज इत्युदाहरणं सिद्धम् । प्रत्युदाहरणं तूच्यते । धातुलोप इति किम् । आर्द्धधातुके विधिनिषेधाभ्यां षोडशिग्रहणाग्रहणयोरिव गुणवृद्धयोर्विकल्पो मा भूत् । आद्धधातुकइति किम् । तुर्वी थुर्वी दुर्वी धुर्वी हिसायां मुर्छा मोहसमुच्छ्राययोः एभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके पिति परे तोतोति मोमोतीत्यादौ निषेधो मा भूत् । राल्लोप इति च्छ्वोर्लोपस्य गुणस्य चैकनिमित्तकत्वात् । इदं च राल्लोपे ङिद्हणाननुवृत्तिपक्षमाश्रित्योक्तम् । तदनुवृत्तिपक्षे तु तोतोर्मीत्याद्युत्तमपुरुषैकवचनउदाहरणं बोध्यम् । अनुनासिकादिप्रत्ययत्वेन तत्र राल्लोपप्रवृत्तेः। ननु तोतोर्तीत्यादि प्रागुक्तमप्युदाहरणमस्तु । राल्लोपस्याप्रवृत्तावपि लोपो व्योरिति लोपादिति चेन । तस्य वर्णमात्रनिमित्तकतया गुणेन सहैकनिमित्तकत्वाभावात् । न हि तत्र प्रत्ययग्रहणन्तदाक्षेपकं वा किञ्चिदस्ति । अत एव गौधेरादिषु प्रत्ययपरतां विनापि यलोप इति दिक् । इक इति किम् । अभाजि रागः, भजेश्च चिणि घवि च भावकरणयोरित्युपधालोपे. कृते वृद्धिर्यथा स्यात् । कथं तर्हि पापचक इत्यत्र वृद्धिप्रतिषेध इति चेत् । शृणु । पापच्यतेवुलि यस्य हल इत्यत्रादिमव्यादित्यादिवारणाय यस्येति संघातगृहणप्यादेः परस्येति ह. ल्मात्रलोपे कृते ऽतो लोप इति पृथगल्लोपे तस्य स्थानिवद्भावेन पापचकादौ न वृद्धिः।न विह नधातुलोप इति सूत्रस्य कश्चिदपि व्यापारः । यङ्लुगन्ताण्ण्वुलि पापाचक इति भवत्येव वृदिौनावेतिवत् । एतेन न धातुलोप इत्यत्रेक इत्यनुवृत्तेः पापाचक इतिवन्नधातुसूत्रे बेभिदिता मरीमृजितेत्युदाहरंच कौमुदीकारः परास्तः । पृथगल्लोपस्य न्याय्यत्वे भाष्यादिसम्मतत्वे