SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुमः । १२३ यं क्रियया सह यत्र नअिति । अत एव पुरुषवचनयोरसंकरः। अन्यथा हि घटो नास्ति त्वं नासि अहं नास्मीति पुरुषव्यवस्था न स्यात् । घटाभावस्त्वदभावो मदभावश्चास्तीतिवत्सर्वत्र प्रथमपुरुषापत्तेः। न हि परमते त्वं नासि त्वदभावोस्तीत्यनयोरर्थे कश्चिद्विशेषः। नबर्थ प्रति प्रथमान्तपदोपस्थापितस्यान्वायतावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संसर्गेण प्रकारताभ्युपगमेपि युष्मत्सामानाधिकरण्यविरहस्याविशिष्टत्वात् । एवं वायौ रूपाणामभावो ऽस्तीतिवद्रूपाणि न संतीत्यत्राप्यस्तीत्येकमचनं स्यादित्यन्यत्र विस्तरः । एवं कारकविभक्तरपि क्रियायोगे सत्येव साधुत्वं न त्वन्यथापीति कारकइति सूत्रे वक्ष्यमाणत्वाद्भूतले घटो नास्तीत्यादावधिकरणत्वं क्रियान्वय्येव न तु नअर्थान्वयि । तथा च सकलकारकविशिष्टक्रियायां नअर्थान्वयः । नत्रो द्योतकतेति निष्कृष्टपक्षे तु क्रियापदस्यैव तद्विरहपरतेति सिद्धान्तः। उभयथापीह गुणद्धयोः प्रतिषेधो दुर्लभ एवेति । अत्राहुः । क्रिययैव सह विधेरिव निषेधस्यान्वयः शाब्द इति सत्यमेव किन्तु क्रियैव केति संशये त्वदुक्तरत्यिा सनिहितापीकपदोपस्थितिरिह न सम्बध्यते । तथाहि सति दीधीवेवीटामिति सूत्रस्य व्यर्थतापत्तेः । न हि तत्रेपरिभाषालोत्यपरिभाषयोः फले विशेषोस्ति । एवं स्थिते ऽस्तिर्भवन्तीपरो ऽप्रयुज्यमानाप्यस्तीति प्रातिपदिकार्थसूत्रे वक्ष्यमाणरीत्या भवत इत्यस्योपस्थितस्य गुणवृद्धी इत्यादिभिरन्वितस्य निषेधान्वये सति गुणवृद्धयोरभावः फलितो भवतीत्येतावता गुण योनिषेध इत्युच्यते । यथा ऽऽघाराग्निहोत्राधिकरणे प्रतीतितः सर्वोपि विशिष्टावधिरेव तात्पर्यतस्तु कश्चिद् गुणविधिरिति सिद्धान्तितं तद्वनिषेधेपि बोध्यम् । न्यायसाम्यात् । अत
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy