________________
१२०
शब्दकौस्तुभः । [१ अ० किचिनिमित्तिके गुणवृद्धी न भवत इति सूत्रार्थः स्यात् । ततश्च अपूर्वादिन्धेः क्तप्रत्यये तनिमित्तके नलोपे च सति प्रेद्ध इत्यत्र माप्नुवन्नाद्गुणापि निषिध्येत । यो हि द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति लभते ऽसावन्यतरतो व्यपदेशमितास्थानिकत्वस्थापि सत्वात् । न चैवमपीग्लक्षणत्वविरहान निषेधः लैंगवायने ओगुणस्येवेति वाच्यम् । नह्यस्मिन्सूत्रे इक इत्यस्य स्वरूपपरतायां प्रमाणमस्त्युत्तरसूत्र तु चकार इतिशब्दार्थकः प्रमाणमित्याहुः । अस्तु वार्थाधिकाराश्रयणबलेनेहापीक इति स्वरूपपरंतथापि भेद्यतइत्यादौ गुणो न स्यादिति तृतीयपक्षे वक्ष्यमाणो दोष आद्यपक्षद्वयेप्यस्त्येवेति बोध्यम् । ननु उपेद्धः प्रेद्ध इत्युदाहरणस्येहोक्तिसम्भव एव नास्ति । तथाहि । पूर्व धातुः साधनेन युज्यतइति मते इद्धमित्यत्र नलोपोन्तरङ्गः प्रथमोपनतक्तप्रत्ययापेक्षत्वात् । पूर्व धातुरुपसर्गेणेति दशेने तु गुणोन्तरङ्ग उभयथापि गुणो भविष्यति । बहिरङ्गस्य गुणस्यासिद्धतया निषेधायोगात् । बहिरङ्गस्य निषेधस्यासिद्धौ गुणप्रवृत्तेनिर्वाधत्वाच्च । सत्यम् । असिद्धं बहिरङ्गमन्तरङ्गइति परिभाषा नेह प्रवर्तते नाजानन्तर्य बहिष्ट्वप्रक्लुप्तिरिति निषेधात्।यनान्तरङ्गे बहिरङ्गे वाचोरानन्तर्यमाश्रीयते तत्रैषा परिभाषा नेति व्याख्यानादिति हरदत्तानुयायिनः । किं त्वस्मिन्पक्षएत ऐ इति सूत्रे पचावेदं पचामेदमित्यादौ एत ऐत्वं कुतो नेत्याशक्य बहिरङ्गत्वेन गुणस्यासिद्धत्वादिति हरदत्तेन वक्ष्यमाणं विरुध्यते । तथा च बहिरङ्गस्यासिद्धताबलेन प्रेद्धमित्यादिसिद्धिरिति प्रतिपादनपरमिहत्यं भाष्यमपि विरुध्येत । तस्माद्यत्रोत्तरकालप्रवृत्तिके अच आनन्तर्य तत्र बहिरङ्गपरिभाषा न स्यादिति कै- : यटसम्मत एव नाजानन्तर्य इत्यस्यार्थः साधुः पचावेदमित्यादौ