________________
१पा. ४ आ. शब्दकौस्तुभः । ति सकलेष्टसिद्धिः । तच्छेषतदपवादपक्षयोरपि दूषणमुद्धर्तुं शक्यमित्युक्तमेव । तदिह सप्तपक्षीमध्ये पक्षत्रयं दुष्टमेव । पक्षचतुष्टयन्तु साध्विति स्थितम् । नन्वेतत्सूत्रमंगस्यत्यादि.. वदधिकारार्थमेव किं न स्यादिति चेन्न । एवं हि सतीको गुणवृद्धी नेति नया संयुज्यैव पठेत् । सर्वस्य द्वे पूर्वत्रासिद्धमित्यादिवत् । न ह्युत्तरसूत्रोपस्थितिकत्वाविशेषे किं चित्संयुज्य: किं चित्तु विभज्य पठितुमुचितम् । वैरूप्ये हेत्वभावात् । प्रत्य-. यः परश्चेत्यादौ तु पारायविशेषेप्यसंयुज्य निर्देशो विधेयभेदान विरुध्यते । नापीदं विधिसूत्रम् । पुनर्गुणवृद्धिग्रहणसा- : मर्थ्यात् । तत्पत्याख्यानपक्षोपि विशिष्टानुवृत्तिसामर्थ्यादिति दिक् ॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे
तृतीयमान्हिकम् ॥ न धातुलोप आर्द्धधातुके ॥ धात्वंशलोपनिमित्ते आर्द्धधातुके परे तनिमित्तिके गुणवृद्धी इको न स्तः । लोलुवः पोपुवः मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचायचि कृते योचिचेति यङ्लुकि लुनिमिसभूतमचमेवाश्रित्य प्राप्ते गुणवृद्धी निषिध्येते । यद्यपि कृत्स्नस्य धातोरपि क चिल्लोपोस्ति । तद्यथा, दुरीणो लोपश्च । दुःशब्दे उपपदइणो धातो रक् प्रत्ययो भवति धातोश्च लोपः । दुःखेन ईयते प्राप्यते दूरमिति । तथाप्येवंविधे विषये गुणवृद्धयोः प्राप्तिविरहानिषेधवैयर्थ्यम् । अतोत्र धातुशब्देन तदेकदेशो लक्ष्यते । धातुलोप इति च यः दि षष्ठीतत्पुरुषः स्याचदा धातुकग्रहणं लोपविशेषणं वा गुणवृद्धयोर्विशेषणं वा वन्त्रावृत्त्यादिभिरुभयविशेषणं वेति त्रयः कल्पाः । तत्राये पक्षे आर्द्धधातुकनिमित्तके धातुलोपे सति य- .