SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५३७ ४ पा. ३ आ. शब्दकौस्तुभः । त्वे वापि कारकम् । रुच्यादिषु शास्त्रेण सम्पदानाख्यमुच्यते ।। अस्यार्थः । अन्यसमवेतोभिलाषो रुच्यर्थः । रोचते । अभिला. षविषयो भवतीत्यवगमात् । विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते । लोल्यात्तदानुगुण्यमाचरतीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्पदानसंज्ञा कथ्यते । तथा च हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वितीयस्याः क्रियाया अप्रततिर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति न तु कर्म । यदा तुरोचते पाणयतीत्यर्थः तदा कर्मसंज्ञायां प्राप्तायां वचनम् । तथा च प्रीयमाण इति विशेषणम् । प्रीश् तर्पणइत्यस्मात्सकर्मकाकर्मणि लट् । देवादिकस्तु डिन्दकर्मकः । तप्यमाण इत्यर्थः । यत्तु समर्थसूत्रे रोचयामहइति हरदत्तेन प्रयुक्तं तदस्मिन्नेव प. क्षेध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम् । यदा तु देवदत्तस्य योभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्पष्ठयां प्राप्तायां वचनमिति । प्रीयमाणः किम् । देवदत्ताय रोचने मोदकः पथि । कर्मादाविवाधिकरणे मा भूत् । अत एवादित्यो रोचतइत्यत्र दीप्त्यर्थे संज्ञा न भवति ॥ श्लाघन्हूङ्स्थाशपां ज्ञीप्स्यमानः ॥ एषां प्रयोगे वोधयितुमिष्टः सम्प्रदानं स्यात् । देवदत्ताय श्लाघते । श्लाघा स्तुतिः । देवदत्तं स्तोतीत्यर्थः । एवं हि देवदत्तः शक्यते ज्ञापयितुम् । अन्ये त्वाहुः ॥ देवदत्तायात्मानं परं वा । श्लाघ्यं कथयतीत्यर्थ इति । तथा च भट्टिकाव्यम् । श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिप इति । आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः । तत्राद्ये पक्षे कर्मत्वे प्राप्ते द्वितीये तु कारकशेपत्वात् पठ्यां प्राप्तायां वचनम् । हुनौतिप्रभृतयोत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्मकर्मकाः । तथा च शीप्यमान इति सं
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy