________________
शब्दकौस्तुभः ।
[ १ अ०
शिविशेषणमुपात्तमिति हेलाराजः । देवदत्ताय न्हुते देवदत्तं न्हुवानस्तामेव न्हुतिं तमेव बोधयति । सन्निहितमपि देवदत्तं धनिकादेरपलपतीत्यर्थः । अथवा न्होतव्यं देवदत्तं बोधयतीत्यर्थः । देवदत्ताय तिष्ठते, ईदृशोहमित्यवस्थानेन बोधयतीत्यर्थः । देवदत्ताय शपते, शपथेन किञ्चित्प्रकाशयतीत्यर्थः । ज्ञीप्स्यमानग्रहणादेवदत्तः श्लाघते । गार्गिकया श्लाघते पथीत्यादौ कर्त्रा - दिविषये संज्ञा न भवति । ज्ञीप्स्यमाने विवदन्तइति शप उपालम्भइति वार्त्तिकोदाहरणव्याख्यायां कैयटः । तत्र यस्मा आख्यायते स ज्ञीप्स्यमान इति मते तु यस्मा आख्यायमानः प्रत्युदाहरणं तस्माद् द्वितीया देवदत्तं श्लाघत इति । आख्यायमानोज्ञीप्यमान इति मते तु यस्मा आख्यायते स प्रत्युदाहरणम् । तस्माच्च षष्ठी । देवदत्ताय श्लाघते विष्णुमित्रो यज्ञदत्तस्येति । ज्ञपमिच्चेति चुरादिकात्सनि कर्मणि शानचि ज्ञीप्स्यमान इति रूपं बोध्यम् । न तु ज्ञाधातोः । तस्य बोधने मित्वाभावात् । तज्ज्ञापयतीत्यादिभाष्यप्रयोगात् । अत एव मारणतोपणेत्यत्र निशानेष्विति पाठो न तु निशामनेष्विति । निशानं तनूकरणम् । श्यतेर्युट् । संज्ञपितः पशुरित्युदाहरणम् । आपज्ञाप्यृधार्मादित्यत्र तूभयोरपि ज्ञप्योग्रहणमिति सिद्धान्तः । चौरादिकश्च मारणतोषणनिशामनेषु वर्त्ततइति माधवः ॥
धारेरुत्तमर्णः॥ अयमुक्तसंज्ञः स्यात् । धृङ् अवस्थाने । ण्य - न्तः । उत्तमर्णो धनस्वामी । उत्कृष्टार्थवृत्ते रुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः । अर्तेक्तः । ऋणम् । ऋणमाघपर्ण्यइत्यत्र कालान्तरदेयन्द्रव्यविनिमयोपलक्षणार्थमाघमण्यग्रहणम् । तेनोत्तमर्णेपि नत्वं भवति । अस्मादेव निपातनान्निष्ठान्तस्य परनिपातो बहुव्रीहौ बोध्यः । देवदत्ताय शतं धारयति । ध्रियमाणं
५३८
2